91 वासनाया अतिरिक्तत्वविचारः

वासना ॥ अनुभवजा स्मृतिहेतुर्वासना । सा कार्यकल्प्या । न तावदनुभवहेतुः स्मृतिः । तस्य चिरध्वस्तत्वात् । नापि तदुपलक्षित आत्मादिः; प्रध्वस्तस्याप्यज्ञायमानस्योपलक्षणतयाऽपि कारणत्वासंभवात् । नापि तद्धंसः; संस्कारप्रमोषाभावप्रसङ्गात् । नापि सदृशदर्शनादि; केवलस्यातिप्रसङ्गित्वात् , विशिष्टस्यासिद्धेः । अनुभवजनितादृष्टविशेष इति चेत्; तर्हि सिद्धा वासना । सा पुण्यापुण्यरूपा वा ततोऽन्या वा इति विशेषः । तत्र न पूर्वा, विधिनिषेधागोचरेषु तदयोगात् । अतो द्वितीयैव परिशिष्यते । साऽप्याधेयशक्तिर्वा ततोऽन्या वा, कार्यकारणादिप्रक्रिया सर्वा समा । सा चात्मनिष्ठा ज्ञानद्रव्यनिष्ठा वेत्येकदेशिविवादः । तत्रानुभवस्मृत्यन्तरङ्गत्वात् ज्ञानद्रव्यनिष्ठत्वमेवोचितम् । यत्तु वरदविष्णुमित्रैरुक्तम्-* भावनाकल्पकप्रमाणेनैव स्थिरात्माश्रयत्वकल्पनादस्थिरज्ञानाश्रयत्वस्य प्रमाणाभावात् इति, तन्नूनं परमताभिप्रायेणोक्तम्; स्वेनैव ज्ञानस्य द्रव्यत्वनित्यत्वयोः समर्थनात् । यदुक्तं समन्वयाधिकरणे भेदाभेदिमतदूषणप्रसङ्गेन विवरणकारैः-* नयुपाधिः प्रतिसन्धाता, प्रदेशभेदस्तु तुल्यः, न ह्यन्यगतस्संस्कारोऽन्यत्र प्रतिसन्धिहेतुः, यदि स्यात्तीनियमः, अनुभवसमानाधिकरणश्च संस्कारः इति; तन्नूनं धर्मभूतज्ञानस्य द्रव्यत्वमनभ्युपगच्छतां मतेनोक्तम् । अस्मन्मते त्वनुभवसंस्कारस्मृतीनां ज्ञानावस्थाविशेषरूपत्वान्न कश्चिद्दोषः । एतेन * वासनारेणुकुण्ठितः इत्याद्यपि गतार्थम् ॥
वेगो भावना स्थितस्थापक इति त्रिविधः संस्कार इति वैशेषिकाः । तदनुपपन्नम्; वेगस्य कर्मविशेषव्यतिरेके प्रसाणाभावात् , शीघ्रं गच्छतीत्याधुपलम्भस्यापि कर्मातिशयमात्रेण चरितार्थत्वात् , कर्मातिशयस्य चोभयसिद्धत्वात् । उक्तं च न्यायतत्त्वे प्रमेयपादे कालनिरूपणप्रसङ्गे-* संयोगकालसामीप्यं हि वेगः इति । वेगेन गच्छतीत्यादौ प्रयत्नहेतुकर्मण्यपि वेगशब्दप्रयोगात् । वेगस्य शरादिधर्मत्वेन प्रतिभासस्य मान्द्यप्रतीतिनिरस्तत्वात् । संस्कारत्वं स्पन्दजनकवृत्ति संस्कारजातित्वादित्यादेरतिप्रसङ्गासिद्ध्यादिदुष्टत्वात् । श्रीविष्णुचितार्यैः क्रिया वेगा [वेका] र्थत्वेन पठि [तौ] ता । तथा हि ईश्वरानुमाननिराकरणे-* सर्वा क्रिया कृतिपूर्विका क्रियात्वाद्गमनवदिति चेन्न; शरवेगजलस्यन्दनादौ व्यभिचारात् , तेषां स्वभावत्वकल्पने हेतुमत्त्वकल्पनाविरोधात् इत्युक्तम् । स्थितस्थापकोऽपि संस्थानविशेष एव । संस्थानविशेषतारतम्यानुरोधेन हि प्रतिगमनतारतम्यं दृश्यते । सर्वदा क्रियोत्पत्तिप्रसङ्गः कर्षणमोक्षणादिसहकारिसाहित्येन परिहारश्च समौ । अतिरिक्तस्यापि स्थितस्थापकस्य तादृशतारतम्यं संस्थानतारतम्याधीनमिति वक्तव्यम् , तद्वरमदृष्टगुणान्तरकल्पनात् । तेनैव संस्थानविशेषेण स्वस्थानगमनसिद्धिः । परिशुद्धिरतिरिक्तवदत्रापि चिन्त्या । ये पुनर्ज्ञानसंस्कारः कर्मसंस्कार इति द्वैविध्यमाहुः, तेषां कोऽयं कर्मसंस्कार इष्टः? न तावद्वेगस्थितस्थापकरूपः; तस्य निराकृतत्वात् । नापि पुण्यापुण्यरूपक्रियाप्रवृत्तिहेतुः; तस्या अपि पूर्वपूर्वादृष्टस्वस्वातन्त्र्यादिभिरेव निर्वाहात् । नापि मृदङ्गवादनादौ पूर्वपूर्ववादनादिभिराहित उत्तरोत्तरक्रियासु हस्तलाघवादिहेतुः; तत्र हस्तलाघवादेः पूर्वपूर्ववादनाकृतकाठिन्यविशेषाभावादिप्रयुक्तत्वात् । हस्तप्रेरणादिशैघ्रयस्य पूर्वपूर्ववादनाधिकृतसंस्कारजनितप्रेरणस्मृतिशेयप्रयुक्तत्वात् । यानि पुनः * अघस्याश्लेषकरणं वैदिककर्मायोग्यतावासनाप्रत्यवायहेतुशक्त्युत्पत्तिप्रतिबन्धकरणम् , * एतदुभयकार्यकारणभूतानादिविपरीतवासनाबद्धोऽपि इत्यादि भाष्यकारवचनानि, तेषामप्यनुभववासनातिरिक्तसंस्कारकल्पननिर्बन्धाभावात् । *अघस्य इत्यादिवाक्यानन्तरं चैवमुक्तम्-* अघानि हि कृतानि पुरुषस्य वैदिककर्मायोग्यतां सजातीयकर्मान्तरारम्भरुचिं प्रत्यवायं च कुर्वन्ति । अघस्य विनाशकरणमुत्पन्नायास्तच्छक्तेविनाशकरणम् , शक्तिरपि परमपुरुषाप्रीतिरेव इति । एवं पापकर्मणः परमपुरुषाप्रीतिद्वारा सजातीयकर्मान्तरारम्भरुचिजनकत्वमिति सिद्धत्वान्न तत्र वासनान्तरमस्तीति गम्यते । * अनारब्धकार्य एव तु इत्यधिकरणे च व्यक्तमभाषयत्; यथा-* न च पुण्यापुण्यजन्यभगवत्प्रीत्यप्रीतिव्यतिरेकेण शरीरस्थितिहेतुभूतसंस्कारसद्भावे प्रमाणमस्ति इति, अन्यत्राप्येतत्तुल्यन्यायमिति बोद्धव्यम् । एवं श्रीमद्गीताभाष्येऽप्युक्तम्
* त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ इत्यस्य व्याख्याने * स्वभावः-स्वासाधारणो भावः प्राचीनवासनानिमित्तस्तत्तद्रुचिविशेषः, यत्र रुचिस्तत्र श्रद्धा जायते, श्रद्धा हि स्वाभिमतं साधयत्येतदिति विश्वासपूर्विका साधने त्वरा । वासना रुचिश्च श्रद्धा चात्मधर्मा गुणसंसर्गजाः, तेषामात्मधर्माणां वासनादीनां जनका देहेन्द्रियान्तःकरणविशेषगता धर्माः, कार्यैकनिरूपणीयाः सत्त्वादयो गुणाःसत्त्वादिगुणयुक्तदेहाद्यनुभवजा इत्यर्थः इत्युक्तम् । यच्चात्मसिद्धौ-* निधूतनिखिलकरणकलेबरज्ञानकर्मवासनानुबन्धस्यापवृक्तस्य न खलु स्वपरसंवेदनोदयनिबन्धनं किञ्चित् संभाव्यते इति भगवद्यामुनमुनिभिर्ज्ञानकर्मवासनयोभैदेनोपादानम् , तदपि भाष्यकारवचनवनिर्वाह्यम् । यत्तु कैश्चित् कार्पासबीजे लाक्षारागरूषिते सति तद्रक्ततापगमेऽपि तत्कुसुमफलादौ रक्ततादर्शनात् वासनानुवृत्तिरङ्गीकार्येति-तत्र विचारणीयम् । किं तत्कार्येष्वकुरादिषु वासनोदयः? क्रमेण पुष्पाद्यात्मना परिणममानेषु बीजावयवेषु वा? नाद्यः वैयधिकरण्येनाश्रयाभावाच्च वासनोदयानुपपत्तेः, अन्यथाऽतिप्रसङ्गात् । बीजावयवेषु तु लाक्षावयवानुवृत्तिस्यूतिबलेनैव रक्ततोपपत्तौ वासना निष्प्रयोजना । यत्तु गारुडमन्त्राद्यभिमृष्टेषु जलादिषु विषनिर्हरणादिदर्शनात् कश्चित्संस्कारोऽङ्गीकार्य इति, तदनुपपन्नम्; मन्त्रबलाहितशक्तिविशेषेणैव तत्तत्कार्योपपत्ते । नहि सजातीयकार्यनिष्पादकतया नियतस्य संस्कारस्य एतादृशकायहेतुत्वं युज्यते । यस्तु मीमांसकैः-* व्रीहीन् प्रोक्षति इत्यादिविहितकर्मसु ब्रीह्यादिद्रव्यनिष्ठः कश्चित् संस्कारोऽङ्गीक्रियते * संस्कारः कर्तुरेवेष्टः प्रोक्षणाभ्युक्षणादिषु इति, तस्य कर्तृसंस्कारत्वमभ्युपगम्यते नैयायिकैः । तत्र किमयं भावनाख्यः संस्कारः, उत अदृष्टरूप इति विवेचनीयम् । नाद्यः-तस्यानूभूतिजन्यत्वेन क्रियाजन्यत्वानुपपत्तेः । न द्वितीयः-द्रव्येषु किञ्चित्कारमनाधाय केवलात्मसमवेतादृष्टजनकत्वे प्रयाजादिवदारादुपकारकत्वप्रसङ्गात् । ततश्च नैवारादिचरुयुक्तायां विकृतौ वीहीणामेव प्रोक्षणं स्यात् , न तु नीवाराणाम्; तत्प्रोक्षणस्य प्रकृतावविहितत्वेन आत्मसमवेतादृष्टासिद्धेः । ततो ब्रीह्यादिप्वेव संस्कारोऽभ्युपगन्तव्य इति । अत्रोच्यते यद्यप्येवम्; अथाप्ययं संस्कारस्तत्तद्देवताभिमतिविषयत्वं वा सत्त्वादिगुणोद्बोधेन यागयोग्यत्वं वा; । अनेन न ततोऽतिरिक्तगुणविशेषसिद्धिः ॥