90 स्नेहस्य अतिरिक्तत्वविचारः

स्नेहः ॥
अथ स्नेहो निरूप्यते । स्नेहप्रत्ययविषयः स्नेहः । स जलैकवृत्तिः । घृतादिषु संसर्गात् दृश्यते । न चासौ द्रवत्वमात्रम्; शातकुम्भादिद्रवाणां पांसुसंग्राहकत्वाभावात् । नापि तोयत्वमात्रम्; स्निग्धं तोयमिति पृथग्व्यवहारात् , जलप्रत्ययमन्तरेणापि मधूच्छिष्टादिपु स्निग्धमिति प्रत्ययदर्शनाच्च । तदेवं प्रत्यक्षसिद्धः सलिलैकवर्ती पांसुसंग्रहणहेतुः स्नेहाख्यो गुणोऽस्तीति वैशेषिकानुसारिणोऽस्मदीयाः । अन्ये त्वाहुः-स्निग्धमिति प्रत्ययस्तावदस्त्येव । स तु रूपस्पर्शविशेषादिष्वेव; न ह्यन्यो गुणो विविच्योपलभ्यते । मासृण्यमात्रेण सलिलेऽपि स्निग्धप्रत्ययः, स काञ्चनादिद्रव्येष्वपि समः । यद्वा न कश्चिदपि सलिलं स्निग्धमिति जानाति, मृदादिरेव हि तथोपलभ्यते । पांसुसंग्रहणमपि सलिलत्वप्रयुक्तं सलिलत्वैकार्थसमवायिशक्तिविशेषप्रयुक्तं वा । अतः काञ्चनादिद्रव्या]वाणामसंग्राहकत्वोपपत्तिः । किं च यदि संग्राहकत्वात् सलिले स्नेहाख्यो गुणः स्वीक्रियते, विश्लेषकत्वादग्नौ रौक्ष्याख्यं गुणान्तरमपि किं न कल्प्यते? यदि तत्र औष्ण्यादिभिरेव विश्लेषादिसिद्धिः, तत्रापि शैत्यादिभिरेव संग्रह इति किं न स्वीक्रियते? उक्तं च न्यायतत्त्वे प्रमेयपादसप्तमाधिकरणे-* दुष्करवियोगस्वभावसंयोगस्पर्शत्वं पिच्छिलत्वम् , सुकरवियोगस्वभावसंयोगस्पर्शत्वं विश्लिष्टत्वम् इति । यदि च संग्रहात् स्नेहसिद्धिः, तर्हि पनसनिर्यासादिष्वपि स कल्प्येत, संग्रहातिरेकात् तेषामेव वा तत्क्लप्तिरुचिता । यद्वा चुम्बकशिलाया इव शक्तिविशेषात् संग्राहकत्वमस्तु । न च सलिलं संग्राहकमित्येव नियममुपलभामहे, शुष्कमृत्पिण्डादीनां सलिलसेकेन विलयस्यापि दर्शनात् । तस्मात् सलिलस्वरूपमेव सहकारिविशेषमासाद्य संग्राहकं विभेदकं चेति यथोपलम्भमङ्गीकार्यम् । चेतनानां तु स्नेहः प्रीतिरुपादित्सा वा, रौक्ष्यमपि दुःख जिहासा, क्रोधो वा, अतो न गुणान्तरसिद्धिरिति ॥