89 द्रवत्वस्य अतिरिक्तत्वविचारः

द्रवत्वम् ॥ द्रवत्वप्रत्ययविषयो द्रवत्वम् । तच्च स्यन्दननिदानम् । न जलमात्रवृत्ति; पार्थिवतैजसेष्वपि क्षीरकाञ्चनादिद्रव्येषु तदुपलम्भात् । द्विधा चेदम्-सांसिद्धिकपाकजभेदात् । सलिले सांसिद्धिकम् । पृथिवीतेजसोः पाकजमिति । यद्वा सलिल एव द्रवत्वम् । काञ्चनादिद्रव्येषु सलिलनिष्ठमेव तदुपलभ्यते पञ्चभूतमयत्वात् सर्वेषां कदाचित्तदंशोद्भवसिद्धेः । तदिदं मृगसलिलवृत्तान्ते भगवता भाष्यकारेण दर्शितम् । तथाऽप्येतन्न जलत्वमात्रम्; तस्य करकाद्यवस्थायां काठिन्योपलम्भात् । अन्ये त्वाहुः-सलिलनिष्ठमेव द्रवत्वमिति यदुक्तं तत्साधूक्तम् । सलिलत्वमात्रातिरिक्तमिति कुतः सिद्धम्? स्यन्दनहेतुतया तत्कल्पनमिति चेत् तदपि तत एव किं न स्यात्? अग्निरुष्ण इत्यादिवत् द्रवं जलमिति विशेषणतया स्फुरणादतिरिक्तत्वमिति चेत्; अस्त्वेवमतिरेकः । तथाऽपि जलत्वपर्यवसितसंस्थानविशेषोऽयमिति यथोपलम्भमङ्गीक्रियतां यथा काठिन्यम् । स्पर्शविशेषः काठिन्यमिति चेत्; अत्रापि तथाऽस्तु, अविशेपात् । न च केवलं स्पर्शविशेषः काठिन्यम् , संयोगविशेषसापेक्षः पृथिवीत्वैकार्थसमवायी स्पर्शविशेषः । द्रवत्वं तु निम्नोन्नतिलेशरहितसंयोगविशेषः । उक्तं च न्यायतत्त्वे प्रमेयपादसप्तमाधिकरणे-* विरलसंयोगप्रयुक्तस्पशों मृदुः । निर्विरलसंयोगप्रयुक्तस्पर्शः कठिन इति । निम्नोन्नतिलेशरहितसंयोग एव किन्निबन्धनः? इति चेत् , जलत्वनिबन्धन एवेति मन्वीथाः । जलत्वं नाम किमिति चेत् , हन्त किं द्रवत्वाभिलाषेण जलत्वमपलपितुमिच्छसि? किं वा जलत्ववत् द्रवत्वसिद्धिरिति मन्यसे? न चोभयमपि युज्यते । तथाऽपि किमिदं जलत्वमितिचेत्; जातिविशेषः । किं तस्य व्यञ्जकमिति चेत्; तादृशसंयोगविशेषरूपविशेषादि । तर्हि तदभ्युपगमेन जलत्वमपि परित्यज्यतामिति चेत् , अस्तु; नैतावता द्रवत्वस्य बहिर्भावः । यदि द्रवत्वं न स्यात् , क्षितितल इव सलिलेऽपि दुष्प्रवेशत्वं स्यादिति चेन्न; आकाशादिभिर्व्यभिचारात् । स्पर्शवत्त्वे सतीति चेन्न; पवनातपादिभिर्व्यभिचारात् , तेषां प्रशिथिलस्वभावत्वात् । तदेव कथम्? सावकाशत्वात् तेषामिति चेन्न; अनुपलम्भात् । न हि मध्यन्दिनातपे मात्रयाऽप्यवकाशमुपलभामहे । तथाऽपि तदुपगमे अत्रापि तदभ्युपगम्यताम् , अविशेषात् । प्रवेशादियोग्यः समसंयोगविशेष एव किन्निबन्धन इति चेन्न; पवनतापादिभिस्समाधानम् । यत्तु करकाद्यवस्थायां काठिन्योपलम्भात् जलत्वातिरिक्तं द्रवत्वमित्युक्तम् , तदपि न; उपष्टम्भकभेदादेव तदानीं काठिन्योपलब्धेः; यथा काञ्चनादितेजसाम् । नहि तेजसः स्वतोऽन्यतो वा काठिन्यमस्ति । नच करकाद्यवस्थासु कस्यचिज्जलप्रतीतिः । नापि विद्रुतावस्थायां जलत्वद्रवत्वयोरन्यतराप्रतीतिः । येन व्यतिरेकोपलम्भः स्यात् । अपर्यायत्वं कथमिति चेत्; संयोगविशेषाधुपाधिभेदादित्युक्तमेव । एतदेव वैशेषिकाद्यभिमतं द्रवत्वम् ॥