गुरुत्वम् ॥ स्वतःपतनहेतुस्वभावो गुरुत्वम् । तच्च सलिलपृथिवीगतम् । पतनकल्प्यम् । तोलनादिदशायां स्पार्शनप्रत्यक्षमपीति केचित् । तोलनादेश्च सहकारित्वात् पर्यन्तो_भागस्पर्श तदनुपलम्भो न दोषः । अन्यथा मातापितृसंबन्धग्रह्णसापेक्षे ब्राह्मणत्वादावप्रत्यक्षत्वापातादिति । अन्ये वाहः-नारित पृथिवीसलिलस्वरूपातिरिक्तं गुरुत्वम् । स्वरूपादेवाप्रतिबद्धात् तयोः पतनसिद्धिः । स्वभावादेव ह्यधिकगुरुत्वस्यापि पतनहेतुत्वम् । स च स्वभावः स्वरूपस्यैवास्तु लाघवात् । पतनतारतम्यपलादिनियमोऽप्यवयवाधिक्यन्यूनतानिबन्धनः । तदनुगुणतयैव हि पलादिनियमं स्मारोऽपि निबध्नन्ति । उक्तं च न्यायतत्वे प्रमेयपादसतमाधिकरणे-* अधःपतनस्वभावात्म गुरुत्वम् , तदभावो लघुत्वम् इति । यदि च पतनात् किंचित् स्वरूपातिरिक्तं कल्प्यते तर्हि ऊर्ध्वज्वलनतिर्थक्यतनाभ्यां दहनपवनयोरपि द्वयमपि स्यात् । स्वभावाददृष्टादीश्वरसङ्कल्पात् शक्तिविशेषाद्वा तत्सिद्धिरिति चेत्; तत्रापि तथा स्यात्, अविशेषात् । एतदभिप्रायेण तत्रैवोक्तम्-* त्रिविधं गुरुत्वम्-ऊर्ध्वतिर्यगधोभेदेन । वाय्वग्निजलानि तिर्यगूर्वाधोगुरूणि इति । भूतद्वयनिष्ठत्वं तेषामनुपपन्नमिति चेत् , भवदभिमतस्य वा कथमुपपद्यते? स्वभावादिति चेत् , तुल्यत् । यथा च ऊर्ध्वजलनस्य एकभूतावान्तरव्यक्तिषु बह्वीषु वृत्तिः, तथाऽत्रापीति भाव्यम् । सलिलमेव चास्माकमवस्थान्तरापन्नं पृथिवीत्यतोऽपि न दोषः । तोलनादावपि प्रत्यक्षत आक्रमणमुपलभ्यते, यथा वाय्वादिभिरभिधातादिः । तावतैव तत्रापि च गुरुत्वव्यवहारः । उपलभ्यते चैतद्बलवता पुरुषेणाक्रम्यमाणेऽतिगुरुत्वप्रत्ययात् , तस्मिन्नेव च मन्दमाक्रामति मान्यव्यवहारात् । अतोऽनुमानतः प्रत्यक्षतो वा न भवदभिमतगुरुत्वसिद्धिः । अस्तु तर्हि सलिलपृथिवीसाधारण उपलभ्यमानो रसादिरेव पतनहेतुरिति चेन्न; तत्राननुविधानात् पतनतारतम्यस्य, वैपरीत्योपलम्भाच्च । किं तर्हि वस्तुतो गुरुत्वम्? श्रयताम् । शक्त्यनभ्युपगमपक्षे विलक्षणं स्वरूपमेव । तदभ्युपगमपक्षे तद्विशेष एव; सर्वत्र हेतुत्वनिर्वाहकतयाऽभ्युपगतायास्तस्या एवात्रापि स्वीकर्तुमुचितत्वादिति । यत्त सांख्यैस्तमःकार्यतया पृथिवीजलयोः पतनहेतुर्गुरुत्वलक्षणो गुणविशेषोऽभ्युपगम्यते, तैस्तेजःपवनयोरूर्वतिर्यग्गमनहेतुतया सत्त्वकार्यो लघुत्वलक्षणो गुणविशेषोऽभ्युपगन्तव्यः । किंतु हेतुना येन पृथिव्यादिषु गुरुत्वलघुत्वयोनियमं वदसि, अनेनैव हेतुना पतनादिकार्यनियमोऽस्तु; मध्ये गुणान्तरकल्पनं गुरुतरम् । अतो गुरुत्वगुणकल्पनं गुरुत्वपराहतमिति ॥