शक्तिः ॥ अथ शक्तिः । सर्वकारणानां कारणत्वनिर्वाहकः कश्चिद्रव्यविशेष : शक्तिः । तांगमाभ्यां तसिद्धेः । प्रतिबन्धकमणिमन्त्रादिसन्निधौ स्वरूपसहकारिवैकल्याभावेऽपि यदु परोधादहनो न द हति सा ह्यतीन्द्रिय शक्तिः । अयस्कान्तदुन्दुभिस्वनादिवृत्तिः । तेषु चैया विशदमवगम्यते । प्रतिबन्धकाभावपर्यवसायिनां शक्तितद्धर्मनाशातदुत्पत्त्यनुत्पत्त्यादिप्रसङ्गानामन्तत आगमेन प्रतिहतिरिति । नन्वस्तु तत्सिद्धिः, तथाऽपि सा प्रतिबन्धकेन नाश्यते वा, तद्धर्मो वा नाश्यते, विरोधिनोः शक्त्यन्तरधर्मान्तरयोर्वा उत्पत्तिः, अविशिष्टाऽपि वा कार्य न करोतीति पञ्चसु पक्षेषु कोऽभ्युपगम्यते? इति सौहार्दैन पृच्छाम इति चेत् , अस्त्वेषामन्यतमः । तर्हि पुनश्शक्त्युत्पादानियतकारणत्वप्रसङ्गपरिहारः कथमिति चेत्; इत्थम्-प्रतिबन्धकाभावसहिताद्वह्रिस्वरूपात्तदुत्पत्तिरप्रतिबद्धा शक्तिर्वा कार्यकरी इत्यादिभवन्निर्वाहस्यैव शक्तौ सुवचत्वात् । सा तर्हि किमर्थं कल्प्यत इति न च वाच्यम्; दत्तोत्तरत्वात् । ननु शक्तिः शक्ता वा? नवा? पूर्वत्र शक्तियोगात् शक्तौ सा च शक्तिस्तथेत्यनवस्था, उत्तरत्र तस्याः कारणत्वं न स्यात् , अशक्तत्वात् । अन्यथा सिकताभ्योऽपि तैलमुत्पद्येत शिलाशकलादिभ्यश्चाङ्कुरादिकमिति चेन्न; शक्त्यन्तराभावेऽपि कारणानां कार्यानुगुण्यरूपतया तस्याः सिद्धत्वात् । अन्यथा उष्णत्वमुष्णम्? नवा? पूर्वत्र अनवस्था, उत्तरत्र कार्य न जनयेत् शीतवदित्यादिप्रसङ्गस्यापि दुर्वारत्वात् । उक्तं चैतत् भगवता पराशरेण
* शक्तयः सवीवानामचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ॥
भवन्ति तपतां श्रेष्ठ ! पावकस्य यथोष्णता इत्यादि । प्रमाणसिद्धस्वभावा न कथंचिदपि परित्यागमर्हन्तीत्यर्थः । एवमहिर्बुध्न्यसंहितायामपि-* शक्तयः सर्वभावानामचिन्त्या अपृथस्थिताः इत्यादि । एवं सर्वत्रानुसन्धेयम् ।
इतरे त्वेवं वदन्ति-सर्वकारणानां सन्निधिमात्रोपकारिणी शक्तिः । तामन्तरेण निस्सारमखिलम्; अशक्तत्वात् शाऽन्वयव्यतिरेकात् । अत एव सा विशेषणतया स्फुरन्त्यपि वस्तुतः प्रधानभूता । सर्वत्रैका; कल्पनालाघवात् । तदक्तम्-* एकैव तु परा शक्तिर्ज्ञानानन्दक्रियामयी इति । निर्विकारा; तत्संबन्धिगत्वात् विकाराणाम् । न शक्त्यन्तर
पेक्षते : शक्तत्वादनवस्थानाच्च । अपर्यनुयोज्यवैभवा चेयम्; अघटितघटकतया धर्मिग्राहकसिद्धेः । एकत्वादेव देशकालापरिच्छिन्ना । तदुक्तम्-* व्यापिका तु परा शक्तिर्व्याप्यं विश्वमिदं जगत् इति । सर्वाकारोल्लासिनीत्वात् वस्तुपरिच्छेदरहिता । अचिच्छक्तिरूपेण सकला । निष्कृष्टचिच्छक्तिरूपेण निष्कला । तां कार्यकारणरूपप्रपञ्चकन्चुकितां पपलप्रलयवतीमेव तत्परतो भावयेदिति । तदन्ये न मन्यन्ते । तथा हि-न तावत् प्रधानभूता; तद्विशिष्टस्यैव तत्त्वात् । अत एव नोपादानत्वादिकमप्यस्याः । प्रागुत्तरावधिव्यतिरिक्तपरिणामस्तु नेष्यत एव । नापि सर्वत्रैका; प्रतिवस्तुनियततयैव तत्सिद्धेः । नापि सर्वत्र नित्या; अनित्येषु नित्यत्वे प्रमाणाभावात् । नाप्यनादिः; कारणैः सहैव स्वरूपलाभात् । नाप्यपर्यनयोज्यवैभवा; प्रतिनियतविषयत्वात् । एवं तु वस्तुपरिच्छेदवत्त्वमपि सिद्धम् । ननु ब्रह्मशक्तिरेव सर्वेषां शक्तिः, तविषयतया शक्तत्वं नियतविषयत्वं चान्येषामस्तु, किं सर्वत्र शक्तिभेदाभ्युपगमेन? इति चेन्न; प्रत्येकं शक्त्याश्रयत्वव्यपदेशस्वारस्य[]बाधात् । यद्यपि ब्रह्मशक्तिस्तु न शक्त्यन्तरवत् , तथाऽपि तच्छक्तिरित्येव सिद्धेः तत्प्रधानत्वसमत्ववचनान्यपि विवक्षया घटन्ते । अधिकत्ववचनानि तु न सन्त्येव । यामलादितन्त्रं तु पाशुपताधिकरणेनैव निराकतम । संविदद्वैतदषणानि च सर्वाण्यत्राप्यनुसन्धेयानि । इयं च द्रव्येष्वेव वर्तते अद्रव्येष्वपि वा इति सयूथ्यवादः । आत्मसिद्धौ भगवद्यामुनमुनिवचनम्-* सर्वद्रव्येषु तत्कार्यसमधिगम्यस्तत्प्रतियोगिशक्त्याख्यो गुणः साधारणः इति । अत्र सर्वद्रव्येष्वित्यस्य द्रव्येष्वेवेत्यवधारणं केचिदिच्छन्ति । सर्वेषु द्रव्येष्वस्त्येवेत्यन्ये । उक्तं च वरदविष्णुमित्रैः* शक्तेर्गुणत्वेऽपि गुणकर्मणोस्तत्संभवः इति । पूर्वस्मिन् पक्षे द्रव्यगतयैव शक्त्या समानाधिकरणया रूपरसादीनां शक्तत्वम्, इतरस्मिस्तु पक्षे रूपादिष्वपि शक्तिरस्ति । एवं द्रव्यमाने रूपादिष्वपीति वृत्तिस्तावत् यथाकथञ्चिदस्तु, शक्तिमात्रं सांप्रदायिकमिति स्थितम् । भाष्यकारैरपि शक्तिः शरीरनिरूपणेऽभिहिता-* अग्न्यादेः शक्तिप्रतिबन्धात् औष्ण्याद्यनुदयः इति । ननु * स्वशक्त्या वस्तु वस्तुताम् इत्यत्र शक्तिशब्दः सहकार्यर्थतया स्थापितो भाष्यकारैः। यथा-* स्वशक्त्या स्वकर्मणैव देवादिवस्तुताप्राप्तिः इति । तथा-* अघस्य विनाशकरणमुत्पन्नायास्तच्छतेविनाशकरणम् , शक्तिरपि परमपुरुषाप्रीतिरेव इत्युक्तम् । तथा भगवता पराशरेणापि
* विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा । अविद्याकर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते ॥ । यया क्षेत्रज्ञशक्तिस्सा वेष्टिता नृप ! सर्वगा। समस्ताः शक्तयश्चैता नृप ! यत्र प्रतिष्ठिताः ॥
तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेमहत् । परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत् ॥ इत्यादिषु शक्तिशब्दो ह्यपृथक्सिद्धविशेषणमात्रे प्रयुक्तः । तथा वेदार्थसंग्रहे * शक्तयः सर्वभावानामचिन्त्य इत्यस्य व्याख्याने * अतो विचित्रानन्तशक्तियुक्तं ब्रह्मेत्यर्थः इत्युक्त्वा तदाह
* जगदेतन्महाश्चर्यं रूपं यस्य महात्मनः । तेनाश्चर्यपरेणाहं भवता कृष्ण ! सङ्गतः ॥ इति । इत्युदाहृतम् । तत्र च शक्तिशब्दार्थतया * जगदेतन्महाश्चर्य रूपं यस्य इत्युक्त्या नातिरिक्ता शक्तिरिष्यते इत्यवगम्यते । स्यादेवम् , नैतावता शक्तिलक्षणधर्मविशेषस्यानभिमतत्वसिद्धिः; मणिमन्त्रादिप्रतिबन्धार्हतया दाहादिकार्यहेतुभूतायाः शक्तेः साक्षादुक्तत्वात् । गौण्या लक्षणया वा वृत्त्या तत्रतत्र शक्तिशब्दप्रयोगास्तु न तद्वस्तूनां शक्तिरूपत्वप्रतिपादनपराः । कर्मणां जीवशक्तित्वव्यपदेशः परमपुरुषप्रीत्यप्रीत्योः कर्मशक्तित्वव्यपदेशश्च तत्तदधीनोत्पत्तित्वेन तत्तत्पारतन्त्र्यमात्रात् । अत एव क्षेत्रज्ञाविद्यादीनां जगतश्च परब्रह्मशक्तित्वव्यपदेशोऽपि, निरतिशयशक्तिमूलत्वाद्वा । अत्र विष्णोः शक्तित्वव्यपदेशस्तु शक्तिशक्तिमतोरभेदोपचारात् । यत्तु * विचित्रानन्तशक्तियुक्तमित्यत्र * जगदेतन्महाश्चर्यमिति वचनोदाहरणं तत्र विचित्रजगत्स्रष्ट्रतया विचित्रशक्तियुक्ततोपपादनार्थम् । अतो न कश्चिद्विरोध इति । अतश्शक्तिर्नाम धर्मविशेषसिद्धः ॥