86 संयोगनिरूपणम्

संयोगः ॥ संयुक्तप्रत्ययनिमित्तं संयोगः । स च स्वरूपमात्रस्वरूपो नैरन्तयमात्रस्वरूपो वेति केचित् । तत्र न स्वरूपमात्रम्; स्वरूपयोः सतोरेव पूर्वोत्तरकालयोः संयुक्तप्रत्ययाभावात् । नापि द्वितीयः; भावान्तराभाववादिनं प्रत्यविवादादेव । सोऽपि ह्यासन्नदेशसंयोग एव ह्यस्मन्मते स्यात् । देशेनापि नैरन्तयमेव स्यादिति चेन्न : तत्राप्युक्तविकल्पानतिक्रमात् । तत्रापि हि स्वरूपातिरिक्तस्य नैरन्तर्यस्य भिन्नदेशविशेषसंयोगाभावरूपतया सिद्ध एव संयोगः । अस्य च स्वाभावसादेश्यमुपलभ्यमानमंशभेदप्रयुक्ततया न विरोधावहम् । निरवयवेष्वपि संयोगहेतुरौपधिकोंऽशः । न चोपाधावप्येवमित्यनवस्था; ज्ञप्तावुपाधिसंश्लेषमात्रातिरिक्तानपेक्षणात् । उत्पत्तावन्येनावच्छेदेऽपि बीजाङ्करानवस्थावददोपात् । यद्वा निरवयवेष्वभिदुरतया पृथनिर्देशायोग्यत्वात् स्वाभाविकोंऽशभेदो भवतु । नचैव सति एकत्वानेकत्वमवयवित्वं सातत्वं वा प्रसज्यत इति वाच्यम्; तादृशस्यांशस्य भेदव्यपदेशहेतुत्वाभावात् । एतावदेकानेकत्वं प्रमाणबलात् दुरपह्नवमभ्युपगतं वा भवतु । यद्वा यन्निरवयवं तत् नैयायिकाद्यभिमतजातिवत् सर्वत्र संयोगिनि संपूर्ण वर्तताम् । तदेतत् सूत्रकाररेवाशङ्कय परिहतम्-* कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा इत्यादिना । तत्र च दीपः-* सकलेतरविसजातीय श्रत्येकसमधिगम्यं सर्वशक्तियुक्तं ब्रह्म निरवयवमपि कार्य च भवत्यन्यच्च भवतीति परिमितशक्तिवस्तुचोद्य न तत्र प्रसज्यते । यथा जातिवादिनो जातिरेव अमूर्ता खण्डमुण्डादिष्वत्यन्तविलक्षणेष्वनन्तेष्वपि परिसमाप्यैव वर्तते न तत्रेतरवस्तुचोद्यमिति जगत्कारणत्वं संभवति इति । तत्रैवाधिकरणे * स्वपक्षदोषाच्च इति सूत्रे-* प्रधानादिकारणपक्षे दोषाच्च ब्रह्मैव कारणम् । तत्रैव लौकिकवस्तुविसजातीयत्वेन प्रधानादेरुक्तदोषा नैव प्रसज्येरन् इत्युक्तम् । एतेन प्रधानपरमाणुवासनासंविब्रह्मप्रभृतीनां निरंशानामेव यथाभागपरिणामावरणानावरणानेकविषययोगादिरुपपद्यत इत्युपरम्यते, तद्वदेव संयोगस्य संयोगिनो वा पूर्णस्य नाने कसंबन्धोऽनुपपन्नः । क्षणिकपरमाणुवादिनाऽपि पुञ्जदशायामेकस्य परमाणोरंशभेदमन्तरेणानेकनैरन्तर्यमभ्युपगतम् । विज्ञानवादिनामेकस्यानेकाकारत्वम् । माध्यमिकस्य तु संयोगे को विशेषप्रद्वेषः? इदमेव शून्यत्वद्वार वस्त्विति चेन; शू-यत्वलइसत्यमोहतौ विरोधात् । द्विष्ठं न किञ्चित् दृष्टमिति चेन्न; अस्यैव दृष्टत्वात् । न चान्यस्य तथात्वादर्शनादन्यस्यापि तथात्वाभावः; प्रत्येकं प्रतिनियतासाधारणस्वभावानां भङ्गप्रसङ्गादिति ॥
स चायं संयोगो द्विधा-कार्योऽकार्यश्चेति । पूर्वः परिमितानां परिमितापरिमितानां च । उभयप्रेरणादन्यतरप्रेरणाद्वा; यथा मेषयोः स्थाणुश्येनयोर्वा । संयोगजमपि संयोगं वैशेषिका वर्णयन्ति । तदसत्; अवयव्यभावात् । अवयवसंयोग एव हि सङ्घातस्य संयोगः । उपलम्भोऽपि इदानीमेकदेशेन संयुक्तमित्येव । अस्तु वाऽवयवि; तथाऽपि येन हेतुना यदैवावयवः संयुज्यते, तेनैव तदैवावयव्यपि संयुज्यताम्; नहि हस्तपुस्तकसंयोगानन्तर्य देवदत्तपुस्तकसंयोगस्योपलभ्यते । हस्तस्पन्देनैव कारणकारणवर्तित्वादसमवायितामापन्नेन देवदत्तपुस्तकसंयोगस्याप्युत्पत्तिरुपपद्यते । हस्तस्पन्दे च तदवच्छिन्नशरीरस्यापि स्पन्दसिद्धेस्ततो वा तत्संयोगः; कर्मणोऽपि संयोगादिवद्यथोपलम्भं स्वाभावसादेश्यमङ्गीकर्तव्यम् । यदा चान्यानीतपुस्तकेन देवदत्तहस्तः संयुज्यते तदा देवदत्तेनापि कथं न युज्येत? हस्तस्य तस्य च निष्पन्दत्वाविशेषात् ।
आभिमुख्यस्याप्युभयोरविशेषात् । एतेन विभागजविभागोऽपि निराकृतः । विभागं चान्तर्भावयिष्यामः । अकार्यस्तु संयोगो निरन्तरयोर्निष्पन्दयोद्रव्ययोः । स नास्तीति वैशेषिकादयः । विभवो मिथस्संयुक्ता निरन्तरद्रव्यत्वात्संप्रतिपन्नवत् । असंयुक्तत्वे सान्तरत्वप्रसङ्गः । यश्च विभूनां नैरन्तयमात्रमिच्छेत् तेनापि तत्रायमपरिहार्यः । अस्मन्मते नैरन्तर्यस्य समासन्नदेशसंयोगरूपत्वात् , गुणादिषु तु निरन्तरत्वबुद्ध्यभावात् । नच हेत्वभावात्संयोगाभाव इति वाच्यम्; ज्ञापकस्योक्तत्वात् । कारणस्य निवृत्तौ कार्यमात्रस्य निवृत्तिरिति ईश्वरज्ञानचिकीर्षाप्रयत्नेषु भवद्भिरेव प्रतिपादनाद्विभूनामपि स्वकार्यजननादेरीश्वरानुप्रवेशनिबन्धनत्वात् । औपनिषदश्चायमर्थः । तथा च श्रुतयः-* सर्वव्यापी च भगवान् , * अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः इत्यादिकाः । न च * बहिश्च इति वचनात् ईश्वरज्ञानव्यतिरिक्तानां सर्वेषामप्यविभुत्वमिति वाच्यम्; बाह्यदेशवत्स्वेव बहिव्यपदेशेऽपि मुख्यान्वयत्वात् । अन्यथा ईश्वरधर्मभूतज्ञानस्याप्यविभुत्वप्रसङ्ग इति । अनुमानान्तराणि च–विगीतं विभुद्रव्यं विभुद्रव्यसंयोगवत् द्रव्यत्वाद्धटवत् । न च व्याप्तिबलात् स्वेन संयोगप्रसङ्गः; विभुद्रव्याणामनेकत्वात् स्वेतरविभुद्रव्यसंयोगेन साध्यसिद्धयुपपत्तेः । तथा विगीतमीश्वरसंयुक्तम् , द्रव्यत्वाद्धटवत् , ईश्वरो वा कालादिसंयुक्तः द्रव्यत्वाद्धटवत् । नच कालसंयोगे कालविकार्यत्वप्रसङ्गः; तस्यापि तदधीनविकारत्वात् , * कालं स पचते तत्र न कालप्तत्र वै प्रभुः इत्यादिविशेषवचनाचेति । यतु भट्ठपराशरपादैर्मनोणुत्वसमर्थनदशायामजसंयोगो निरस्तः, तदपि * युगपज्ज्ञानानुत्तत्तिर्मनसो लिङ्गम् , * अत्मेन्द्रियार्थसन्नि । ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् इत्यक्षपादकणभक्षसूत्रोपादानप्रसङ्गेन तत्तसिद्धान्तसंस्कारोन्मेषवशादिति मन्यामहे । आ एव हि तत्र कालस्वरूपाप्रत्यक्षत्वमप्युक्तम् । यत्तु तत्र * न चाजसंयोगमन्तरेण किञ्चिदनुपपन्नम् इत्युक्तम् , यच्च स्तम्भादेविभु संयोगे किं मानम्? न प्रत्यक्षम् प्रत्यक्षाप्रत्यक्षसंयोगत्वात् । न चानुमानम्-पूर्तद्वयाश्रयनियमादिति चेन् इत्यत्र * परत्वापरत्वशरीरगतितद्विकारो_ज्वलनादीनां संभवार्थ विभुसंयोगावश्यम्भावात् इति-तत्र पूर्वमेव दत्तमुतरम् । यथा च मूर्तगतवि कारविशेषसिद्ध्यर्थं विभुसंयोग उक्तः, तथैव कालादिगतविकारसिद्व्यर्थमपि ईश्वरसंयोगोऽवश्याभ्युपेत्यः । अन्यथा ईश्वरशरीरत्वमपि कालादेन स्यादिति ॥