85 औपनिषदानां पाकजगुणप्रक्रियानिरूपणम्

औपनिषदानां पाकजगुणप्रक्रिया ॥ अथौपनिषदानां पाकजगुणप्रक्रिया । उत्पत्तिदशायां कृष्णरूपा पृथिवी * यत्कृष्णं तदन्नस्य इति श्रुतिस्वारस्यात् , भाष्यकारैश्चाकाशनैल्यस्य पञ्चीकरणलभ्यपृथिव्यशनिबन्धनत्वाभिधानात् , पञ्चीकरणात् प्राक्च पाकजत्वायोगात् । प्रथममेव विशेषयोगिनी कथं सा जातेतिचेत् , सलिलदहनरूपस्पर्शविशेषावालोक्य सन्तोष्टव्यम् । अस्त्वेवं प्रथमं कृष्णा पृथिवी, स्पर्शरसगन्धास्तदानीं तत्र किंप्रकाराः? उच्यते; स्पर्शस्तावत् वायाविवानुष्णाशीतमात्रः तद्वदेवापाकजश्च । विषामृतदुस्स्पर्शादिस्पर्शविशेषा एव पाकाधीनाः । अनुष्णाशीतमात्रं हि सवैष्वपि पार्थिवेषूपलभ्यते । अतस्तावन्मात्रस्य स्वाभाविकत्वमुचितम् । रसोऽपि मधुर एव प्राथमिकः, विशेपादर्शने कारणभूतजलगतमाधुर्यानुविधानस्यांचतत्वात् । स्वर्शवदस्यापि प्राचुर्यो पलम्भात् । महापृथिवी सर्वा प्रायशो मधुरैव युपलभ्यते । आम्ललवणादयः क्वाचिका रसविशेषाः पाकाधीनाः । तथा मधुरविशेषा अप्यन्वयव्यतिरेकाविशेपात् । गन्धोऽपि सुरभिरेव प्राथमिकः । अस्यैव महापृथिव्यां पूर्ववत्प्राचुर्यात् । पूतिविन प्रभृतयोऽसुरभिविशेषाश्च पूर्ववत् पाकाधीनाः । एवमनुष्णाशीतकृष्णमधुरसुरभिस्वभावा प्रथमं पृथिव्युत्पन्ना । अतः पाकभेदेनानुष्णाशीतस्यैव भेदैर्दुष्परिमादिस्पर्शः, कृष्णभेदैश्च मरतकहरिततमालकुवलयादिरूपैः, अकृणैश्च सितरक्तादिभिः, मधुरभेदैश्च इक्षुक्षीरगुडादिरसैः, अमधुरैश्चाम्ललवणादिभिः, सुरभिभेदैश्च चम्पकमृगमदादिगन्धैः, असुरभिभिश्च पूतिविनादिभिः संबध्य । । अस्यां च गन्धरसरूपस्पर्शशब्दाः कचित् सहैव उत्पद्यन्ते, सहैव च विनश्यन्ति । कचिच्चान्यतमानुवृत्तिः, अन्यतमनिवृत्तिश्च । यथोपलम्भं पाकवैषम्यस्याङ्गीकर्तव्यत्वात् । अत्र चैकेनाग्नि [संयोगे] संयोगेन पूर्वसमुदायनिवृत्तिः, अन्येनोत्तरसमुदायोत्पत्तिरित्येके । एकेनैव पूर्वनिवृत्तिरुत्तरोत्पत्तिरपीति वयं वदामः । यथा एकयैव सामग्रया उत्पत्स्यमानप्रागभावमात्रभेदभिन्नयाऽनेककार्योत्पत्तिर्निव्यूढा, तद्वत् प्रध्वंसमानतत्तत्स्वरूपसहकारिभेदभिन्नयाऽनेकप्रध्वंसोऽप्युपपन्नः । उभयविधप्रागभावादिभेदभिन्नया च तथैव पूर्वसमुदायनिवृत्तिरुत्तरसमुदायोत्पत्तिश्चोपपन्ना । निवृत्तेश्च उत्तररूपमात्रतयाऽस्माभिरभ्युपगमात् परमार्थतो न कार्यद्वैविध्यमस्ति; प्रतियोगिभेदभेदतो व्यपदेशभेद एव केवलम् । यत्तु प्राकट्यनिरासप्रसङ्गेन भट्टपराशरपादैरुक्तम्-* न खलु पूर्वरूपविनाशिकैव व्यक्तिरुत्तरोत्पादिका, पाकलक्षणाग्निसंयोगानां भिन्नत्वात् इति, तत् परमतानुसारेणेति मन्यामहे; एकस्यैवानेककार्यहेतुत्वोपपादनादिति । पाकावान्तरभेदाच्च गन्धाद्यवान्तरभेदसिद्धिः । पाके च पीलुपिठरपाकभेदात् विप्रतिपद्यन्ते; तत्र नोभयमप्यस्माकम् , परमाण्ववयविनोरभावात् । अतः संहितावस्थायां पाको विभक्तावस्थायां वा इति चिन्ता परिशिष्यते; तत्र यथासंभवमुभयमपि । प्रथमं तावद्वटादीनामशिथिलानामेव पाकभेदेन रूपभेदोपलम्भादुपलम्भस्तावद्वैशेषिकाणामपि समः । किंतु अवयविरूपादीनां यावदाधारभावित्वनियमाभ्युपगमादवयवविशेषगुणैरवयविविशेषगुणारम्भनियमाभ्युपगमाञ्च पूर्वावयविनः परमाणुपर्यन्तो नाशः घणुकादिक्रमेण पुनरन्यस्यादृष्टयशादारम्भ इति कल्पितम् । द्वितीयमपि दहनसन्निकर्षमात्रेण विलयविशरणादीनामेव मधूच्छिष्टानां पाक उपलम्भादिति । एतेन एकदेशपाकोऽप्युपपन्न इत्युक्तं भवति ॥