अस्मदादिघ्राणग्राह्यविसजातीयेतरो गन्धः । स च द्विविधः-सुरभिः असुरभिश्चेति । तयोरपि लक्षणादिकं पूर्ववत् । पटीरमृगमदघुसृणचम्पकादिगन्धाः सुरभिभेदाः । पूतिवित्रादिगन्धा असुरभिभेदाः । अयं च गन्धः पृथिव्येकवृत्तिः । अयो दहतीतिवत् सलिलपवनादिषु चम्पकपाटलादिसंसर्गात् तदुपलम्भः । तत्तत्संसर्गाधीनत्वस्य अन्वयव्यतिरेकसिद्धत्वात् । स्यादेतत्, पञ्चीकरणादेव पञ्चभूतेषु स्पर्शादिसङ्करः प्रागेव सिद्धः । ततश्चेदानी व्यञ्जकविशेषवशात् कचित्कचित् गुणो व्यक्तरूप उपलभ्यतां मृगजलादिवदिति चेत्, अस्त्वेवम् । किमेतावता भूतान्तरेषु गुणानां स्वाधारसंसर्गमन्तरेण वृत्तिरुपपादिता? संसर्गस्तु प्राक्तन इदानीन्तनो वा इति विचार्यम् । तत्र यथायथं द्वयमपि । पूर्वस्यागमसिद्धत्वात् पाटलादिसंसर्गस्य चेदानीमध्यक्षसिद्धत्वात् ॥