अस्मदादिजिह्वैकग्राह्यविसजातीयेतरो रसः । स पोढा-मधुराग्ललवणतिक्तोष्णकषायभेदात् । एषां लक्षणं पूर्ववत् । तत्र इक्षुक्षीरगुडादिरसा मधुरभेदाः । चूतचिञ्चामलकादिरसा अम्लभेदाः । सैन्धवलवणाब्विकारादिरसा लवणभेदाः । किम्पाकनिम्बादिरसास्तिक्तभेदाः । शुण्ठीमरीचिसर्षपादिरसा उष्णभेदाः । हरीतकीविभीतकचूताङ्करादिरसाः कषायभेदाः। तिक्तावान्तरभेद एवोष्णादिरिति केषांचित्प्रतिभासः । आयुर्वेदितश्चैते विशदमनुसन्धेयाः ।