रूपरसगन्धाः ॥ अस्मदादिचक्षुरिन्द्रियैकग्राह्यविसजातीयव्यावृत्तमद्रव्यं रूपम् । तच्च सितरक्तकृष्णपीतभेदम् । सितादिप्रतिपत्तिव्यवहारास्तल्लक्षणानि । तत्र सलिलकलधौतशङ्खशुक्तिशशाङ्कादीनां रूपविशेषाः सितभेदाः । हुतवहजपादाडिमबन्धुजीवविद्रुमपद्मरागादीनां रक्तभेदाः । काञ्चनकाञ्चनारहरितालहरिद्रादीनां पीतभेदाः । मरतकमधुकरजलधरतिमिरतमालदूर्वादीनां कृष्णभेदाः । पीतरूपमपि रक्तावान्तरभेदं केचिदिच्छन्ति; रोहितशुक्लकृष्णानाभव तेजोबन्नेषु श्रवणात् । प्रकारान्तरेण रूपं द्विधा-भास्वरमभास्वरं चेति । तेजोगतं भास्वरम् , क्षितिसलिलगतमभास्वरम् । तेजसि रूपं रक्तभास्वरम् , सलिले तु शुक्लमभास्वरम् , पृथिव्यां बहुविधमभास्वरम् । अत्रापि संसर्गादनियतभासादि । चित्रं नाम पञ्चमं रूपमिति वैशेषिकादयः, तदसत्; एषामेव एकसङ्घातवर्तिनां समुदायविशेषतस्तत्प्रतीतिव्यवहारयोरुपपत्तेः । नानावर्णचूर्णपुञ्जरञ्जितस्थलादिविलक्षणप्रतीत्यभावात् । अवयविरूपारम्भकतया भवद्भिस्तेपामेवाभ्युपगतत्वात् । अवयव्यभ्युपगमेऽपि नानारूपाश्रयत्वस्य प्रतीतिव्यवस्थाप्यत्वात् । संयोगतदभावादिवद्भागभेदस्य उपलभ्यमानस्य नियामकत्वात् । व्याप्यवृत्तिरूपान्तरजातीयरूपारम्भकतया बाधे तु गुणत्वादिमात्रेण संयोगादावपि प्रसज्यते । एवमेव चित्ररसगन्धानामपि निर्वाहः ।