पुनर्द्विविधत्वम् ॥ स्पर्शः पुनर्द्विधा-पाकजोऽपाकजश्चेति । पृथिव्यां पूर्वः, उत्तरेषु त्रिषु परः । तत्र अमृतगरलकपिकच्छूतूलोपलगोब्राह्मणचण्डालादिस्पर्शविशेषाः अपाकजभेदाः । अनुष्णशीतस्पर्शवत्त्वमात्रेण प्रथममञ्चः पृथिव्युत्पत्तिः । परस्तात्पाकभेदानेदोऽन्वयव्यतिरेकादिसिद्धः। मृदुकठिनभावादयोऽपि स्पर्शविशेषा एव, स्पर्शनेनैव तदुपलब्धेः चक्षुषा तु तदविनाभूतरूपादिग्रहणद्वारा स्पर्शमात्रस्येव तेषामपि यथायथमनुमानमेव । करकादिकाठिन्यं पृथिवीयोगात् । मृदुपवनादिव्यवहारो वेगमान्द्यादिना । केचित्तु तेषां संयोगविशेषत्वमातिष्ठन्ते । गोब्राह्मणचण्डालादिषु कथं स्पर्शभेद इति चेत् , तदधीनशुद्धयशुद्धयादिभेदात् । जातिभेदादेव तदुपपत्तिरिति चेत् , जातिभेद एव कुतः? मातापितृसंबन्धप्रकारभेदादिति चेन्न; मानसब्राह्मणादिषु तदभावात् । यद्वा धर्माधर्मतारतम्याधीनसत्त्वरजस्तारतम्यात् शक्तितारतम्याद्वा शुद्धयादिसिद्धिरिति न स्पर्शभेदास्ते । अपाकजस्पशेषु तु तारतम्य संसर्गादिभेदात् । पवनसलिलयोरपि पाकजस्पर्शः किं न स्यात्? इति चेत् , औष्ण्यशान्तौ स्पर्शान्तरस्य पाक जस्य पृथिवीवदननुवृत्तेः । औष्ण्यमेव हि तर्हि पाकजं तत्र स्यादिति चेन्न; वायुशैत्यवदौपचारिकत्वोपपत्तेरिति । एवं पृथिव्यामपि शीतोष्णस्पर्शोपलम्भ औपाधिकः, उपाधिसन्निधिमन्तरेण कदाचिदप्यनुपलम्भात् । पाकजत्वे तु पश्चादपि रूपादिवदनुवृत्तिः स्यात् । निर्मृष्टेऽपि सलिले निर्वाणेऽपि शिखिनि पार्थिवेषु शीतोष्णस्पर्शावुपलभ्येते इति चेत्; सूक्ष्मसंश्रयणात् क्षणान्तरे तु तावतोऽपि निवृत्तेरिति ॥