अद्रव्यपरिच्छेदः स्पर्शस्य त्रिविधत्वम् ॥ अस्मदादिस्पर्शनेन्द्रियग्राह्यविजातीयव्यावृत्ताद्रव्यं रपशः । स त्रिविधः-शीतोष्णानुभयात्मकभेदात् । अप्सु शीतः । तेजस्युष्णः । क्षितिपवनयोरनुष्णाशीतः । भूतान्तरसंसर्गात् सर्वत्र स्पर्शसङ्करावभासः, न तत्त्वतः : तथाऽन्वयव्यतिरेकात् । एवं कचित् स्पर्शानवभासोऽपि । ततएव च त्वचा रत्नालोकाद्यग्रहणम् । तदुक्तमन्वयाधिकरणे भेदाभेदविरोधनिदर्शने विवरणकारैः-*यथा शीतं न कदाचिदप्युष्णम् , वाय्वौष्ण्यं तु तत्स्थाग्नेः, न तु तत्त्वाकारात् । पाकजो हि गुणः पाकादपैतीति हि तत्त्वविदः । वह्निरूपानुपलम्भस्तुल्यरूपाभिभवात् , तत्स्पर्शोपलम्भस्तु अन्यस्पर्शानभिभवादित्युपलब्धिव्यवस्थाप्यमिति । अनुष्णाशीतोऽपि स्पर्श एव न तु शीतोष्णविरहमात्रम् , आकाशादावपि तथोपलम्भप्रसङ्गात् , वायुपृथिव्योः स्पर्शवत्त्वस्य श्रुत्यादिसिद्धत्वाच्च । नच स्पर्शसामान्यं तदिति वाच्यम्; निर्विशेषसामान्याभावात् । अनुपलब्धशीतोष्णविशेषं तदेवेत्यपि न वाच्यम्; अत्यन्तानुपलब्धस्य विशेषस्य कल्पकाभावात् , आगमाभावाच्च । केचित्तु सजातोयवृद्धिहेतुत्वस्य सामान्यतो दर्शनाच्छीतस्य वातवृद्धिहेतुत्वाद्वातोऽपि शीत इति वर्णयन्ति । तदसत्; रसादिसाम्ये प्रभावादिवैषम्यवदत्रापि स्वभाववैचित्र्योपपत्तेः; विपक्षे बाधकाभावात् । नच वायोः शैत्यानुपलम्भप्रसङ्गो बाधकः; हिमाद्यनुपहितदशायामातपाद्युपहितदशायां च प्रसङ्गस्येष्टत्वात् । हिमाद्युपहितदशायां तु शीतोपलम्भस्यौपाधिकतयाऽन्यथासिद्धत्वात् । अन्यथोष्णानुपलम्भप्रसङ्गादुष्णस्य कल्प्यत्वात् । किं तत्रानुग्राह्यमिति चेत्-उष्णारम्भकत्वम् । न ह्यनुष्णमुष्णद्रव्योपादानमस्ति उष्णस्य च तेजसो वायुरुपादानमिति । तदेवमनुष्णशीतो वायुः पृथिवी च ॥