शब्दस्य द्रव्याद्रव्यत्वपक्षतारतम्यम् ॥ ननु शब्दस्याद्रव्यत्वव्यङ्गयत्वे सिद्धान्तयितुं न शक्यम्; द्रव्यत्वकार्यत्वादेः श्रुत्यादिसिद्धत्वात् । तथा हि * यद्वेदादौ स्वरः प्रोक्तः इत्यादिभिर्वर्णानां वर्णान्तरोपादानत्वमुच्यते । न चाद्रव्यस्योपादानत्वम् , निमित्तत्वमात्रविवक्षायामुपादानप्रकृतिलीनादिस्वारस्यभङ्गः, निमित्तस्य प्रकृतिलयस्थानत्वाभावात् । न चायमुपचारः; बाधाभावात् , भाष्यकारवचनविरोधाच्च । तथा च वेदार्थसंग्रहे-* वेदाद्यन्तरूपतया वेदबीजभूतप्रणवस्य इत्युपक्रम्य * सर्वस्य वेदजातस्य प्रकृतिः प्रणवः । प्रणवस्य च प्रकृतिरकारः । प्रणवविकारो वेदः स्वप्रकृतिभूते प्रणवे लीनः । प्रणवोऽप्यकारविकारः स्वप्रकृतावकारे लीनः । तस्य च प्रणवप्रकृतिभूताकारस्य यः परः-वाच्यः स एव महेश्वर इति । सर्ववाचकजातप्रकृतिभूताकारवाच्यः सर्ववाच्यजातप्रकृतिभूतो नारायणो यः स महेश्वर इत्यर्थः इत्युक्त्वा, * अकारो वै सर्वा वाक् इति चोपादाय * वाचकजातस्याकारप्रकृतित्वं वाच्यजातस्य ब्रह्मप्रकृतित्वं च सुस्पष्टम् इत्युक्तम् । तथा श्रीमगीताभाष्ये-* अक्षराणामकारोऽस्मि-अक्षराणां मध्ये * अकारो वै सर्वा वाक् इति श्रुतिप्रसिद्धः सर्ववर्णानां प्रकृतिः अकारोऽहम् इति । तथा परिणामित्वं च शब्दस्योक्तं भाष्ये-* प्राकृतप्रलये स्त्रष्टुः प्रजापोभूताद्यहङ्कारपरिणामशब्दस्य च विनष्टत्वात् इति । तथा दीपेऽपि-*अव्याकृतपरिणामशब्दमयेषु वेदेषु इत्यादि । तथा * यस्य वेदाः शरीरम् इत्यादिभिरपि द्रव्यत्वं सिद्धम् । द्रव्यस्यैव हि शरीरत्वं शरीरलक्षणसिद्धम् । आत्मसिद्धावपि - * दृश्यन्ते गुणा अपि शब्दगन्धसूर्यालोकरत्नप्रभादयो गतिमन्तो धर्म्यतिवर्तिनश्च । अतिसूक्ष्मो दूरगमनधर्मा भौतिको हि शब्दः । स खलु शङ्खमुखादेर्दवीयसोऽपि दृशां नोदनविशेषेण लोष्टादिरिव यावद्वेगमभिप्रतिष्ठते, स्पर्शरहितोऽपि इत्यारभ्य * शब्दस्य नमोगुणत्वप्रतिक्षेपो वायवीयत्वमुच्चारणानन्तरभावित्वं व्यञ्जकपक्षदूषणानि च विशदमुपपादितानि इति । एवं स्थिते वर्णानामुपादानत्वादियथार्थ एवेति वा, काल्पनिक इति वा, दृष्टिविधिरिति वा, औपचारिक इति वा निर्वाहः स्यात् । तत्र न प्रथमः, वर्णनित्यत्ववादिनां मते उपादानोपादेयभावाभावात् । नैयायिकमते तु असमवायित्वाद्यभ्युपगमात् , सदनारम्भाच्च । भगवद्यामुनमुनिपक्षेऽपि वायोरेव वर्णोपादानत्वात् , भाष्यकारैरप्यहङ्कारपरिणामत्वमात्राभिधानात्, अव्यक्तपरिणामबचनवदारम्भपर्यायाभ्युपगमज्ञापकाभावात्, वचनेषु च वर्णानामनियतोपादानत्योपादेयत्वदर्शनात्, विरुद्धोपादानोपादेयभावदर्शनात्, सिद्धे च विकल्पायोगात् । गोमयवृश्चिकादिनये च गौरवात्, भेदादृष्टेश्च । उपादानावच्छेदकतया उपादानत्वमिति चेन्न; तथात्वेऽपि मृत्पिण्डगतपिण्डत्वादिवदनुपादानत्वम्, विशिष्टस्योपादानत्वेऽपि विशेषणानां विशिष्टत्वाभावेन तदभावात् । रूपवत्त्वाभिधानं चात्यन्तदुस्स्थम्; तेजःप्रभृतिष्वेव रूपोत्यत्तेः, घटादिवत् चाक्षुषत्वप्रसङ्गात्, स्पर्शवत्त्वादिप्रसङ्गाच्च, सर्वत्रोपलभ्यमानस्य स्थानविशेषानुपपत्तेश्च । नापि द्वितीयः; स हि सर्वस्य वा? प्रपञ्चस्य वा? वर्णानामेव वा? नाद्यौ, स्ववचनविरोधादिभिः शून्याद्वैतादिमतभङ्गात् ।
तरः, आगमिकत्वाविशेषेण प्रकृत्यादावपि प्रसङ्गात् । अनुपपत्तेश्च सर्वत्र सूहत्वात् , आगमिकस्योपपत्तिबाध्यत्वाभावात् , तत्प्रामाण्यस्य च स्थितत्वात् , अनुपलम्भस्य चायोग्ये बाधकत्वाभावात् , अन्यथाऽतिप्रसङ्गाच्च । अस्तु तर्हि तृतीयः पक्षः । तथा हि; केषुचिदन्थेषु प्रणवांशभूताकारोकारादिविकारत्वं वर्णानामुच्यते, केषुचित् हल्लेखांशभूतहकारादिविकारत्वम् । तथा च प्रक्रियान्तरेण श्रुतिः-* भूरिति ऋग्वेदादजायत । भुव इति यजुर्वेदात् । सुवरिति सामदेशात । तानि शुक्रियाण्यभ्यतपत् । तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्त । अकार उकार मकार इति । तानेकधा समभरत्तदेतदोमिति इति । स्मृतिश्च
* अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयान्निरदुहद्भर्भुवस्स्वरितीति च ॥ इति । तथा सर्वमन्त्राणां प्रणवबीजत्वं साधारणमुक्त्वा प्रतिमन्त्रं बीजाक्षराणि च कल्पैरुच्यन्ते । तथा प्रलये * मन्त्रं सञ्छाद्य
पनि इति । छन्दांसि च वर्ण्यन्ते, तथा त तदक्षराणां सितरक्तपीतकृष्णादयो रूपविशेषाश्चाभिधीयन्ते । एकस्यैवाक्षरस्य विनियोगभेदेन मन्त्रभेदेन रूपभेदः प्रकीर्त्यते । एवं नियतानियतस्थानविशेषादयोऽपि । न च परमार्थतो रूपस्थानादि
दो वर्णानाम् , किं तु तादृशानुसन्धानेनादृष्टविशेषो भवतीत्येतदेवाभिप्रेतम् , यन्त्रवृत्तान्तवत् । अन्यथा व्याकुलोपादासमानभावरूपस्थानाधुपदेशेन तेषामप्रामाण्यप्रसङ्गः । अतो दृष्टिविधानमेवात्रोचितमिति । अयमपि पक्षो विलक्षितः, नशा द्वि-ओमित्येतदक्षरमुद्गीथमुपासीत इत्यादिवत् प्रणवं सर्वाक्षरोपादानमुपासीतेत्येवमादिरूपेण विधिर्न दृश्यते । किंन तत्वोपदेशवचनव्यक्तिः । तथाऽपि दृष्टिविधित्वे ब्रह्मणो जगत्कारणत्वादावपि प्रसङ्गात् तत्त्वतर्कप्रतिपादकमाष्यकावसि च दृष्टिविधित्वं दूरापेतम् । अकारावच्छिन्नाकाशांशे वर्णोत्पत्तिरित्यादिकुशकाशावलम्बेन प्रकृतिविकृतिभाव इति चेत् , तर्हि तद्विशिष्टस्य प्रकृतित्वं तस्मिन्नुपचरितं स्यात् , दृष्टिविधिश्च गतः । अस्त्वेवमेवात्रेति चेत् , तर्हि वाचकजातप्रकृतिभूताकारस्य वाच्यजातप्रकृतिभूतपरमात्मवाचकत्वाभिधानमयुक्तम् । अतः प्रशंसापरतया तत्तत्कार्यशक्त्यादियोगेन वा प्रकृतिविकृतिभावरूपविशेषादिव्यपदेश औपचारिको गुणत्रयादौ लोहितशुक्लकृष्णादिव्यपदेशवत् । इत्येवं स्थिते पञ्चमः पक्ष उच्यते-कचिद्याथार्थ्यम् , कचिद्भान्तिः, कचिदृष्टिविधिः, क्वचिदुपचारश्चेति । अबाधिते प्रथमः । बाधिते निर्मूले च द्वितीयः । ध्यानविधौ प्रायशस्तृतीयः । बाधिते समूले संबन्धशालिनि चतुर्थ इति ।
नन्वेवमपि न कश्चित् सिद्धान्तः, तथा हि-शब्दो द्रव्यम् अद्रव्यं वा? द्रव्यत्वे च किं कस्योपादानम्? रूपादिसंबन्धश्च कीदृशः? अद्रव्यत्वे तु कथमुपादानस्वरूपसंबन्धादिः? इति । अत्रोच्यते-सयूथ्यमतभेदेन द्रव्यम् , अद्रव्यं च शब्दः । द्रव्यत्वपक्षेऽपि वायवीयोऽवायवीयश्चेति । अवायवीयत्वेऽपि दीपादिधर्मभूतप्रभावत् भेर्यादिधर्मभूतः प्रहारप्रकाश्य इत्येकः पक्षः । व्यजनेन पवनवत् प्रहारेण जातः प्रसरतीत्यपरः । पक्षद्वये चायं स्पर्शरहितः-* स्पर्शरहितोऽपि इति वचनात् । वायवीयत्वेऽप्यनुपलम्भात् स्पर्शाभावः । भेरीशब्द इत्यादिव्यवहारस्वारस्यात् प्रथमः पक्षः । तरङ्गमारुतादिवत् तथा व्यवहारोपपत्तावन्वयव्यतिरेकात् तदानीमेवोत्पत्तिरित्यपरः । व्यञ्जकस्य कारकस्य वा वायोरागमनावश्यंभावात् तब्यङ्गयस्य तदुत्पाद्यस्य वा शब्दान्तरस्याभ्युपगमे गौरवाद्वाय्वन्तरादृष्टव्यञ्जकत्वादिशक्तिकल्पनवत् शब्दत्वमेव श्रावणत्वनिबन्धनं वायोरस्त्विति वायवीयत्वमिच्छतामभिमानः । तत्र चोपादानादिवादा दृष्टिविध्यादय एव । अवायवीयद्रव्यत्वे तु यथोपदेशं कल्पभेदेनाण्डभेदेन बोपादानानियमः । तत एव रूपस्थानाद्यनियमोऽपि । अनुपलम्भस्तु रूपादीनामयोग्यत्वात् । अनुपलम्भबाधितांशे वा दृष्टिविधित्वादिस्वीकारः ॥
अथाद्रव्यत्वपक्ष उच्यते । तत्र तावत् सत्त्वरजस्तमसामद्रव्यत्वाय भाष्यकारोक्ता युक्तयः शब्दस्यापि समानाः । अव्याकृताहङ्कारपरिणामव्यपदेशोऽपि आगन्तुकधर्मत्वाभिप्रायेण घटते । आत्मसिद्धिवचनं तु परमतेन एकदेशिमतेन वा घटते । भट्टपराशरपादैः वाक्यनिरूपणे शब्दस्य गगनगुणत्वमेवाभिहितम्-* गगनगुणशब्दादिस्वरूपस्थितीः प्रवर्तयता भगवतैव योग्याथैदमयंन वाक्यप्रवाहस्य पूर्वमेवोपात्तत्वात् इति । * यस्य वेदाः शरीरम् इत्यादि तु देवताविशेषविषयत्वेनोपपन्नम् । एवमेवोपादोनरूपस्थानादिव्यवहारोऽपि । एवं * तस्य प्रकृतिलीनस्य इत्याद्युपपन्नं भवति । तत्तद्देवताक्षरेषु तत्तदुपादानत्वादिव्यवहारः उपचारदृष्टिविध्यादिना तत्प्रयोगानुकूलमुपपाद्यः । अनियतोपादानत्वादिकं तु तत्त्वेप्वेवानियतोपादानत्ववदागमतदाभासयोः प्रामाण्याप्रामाण्याभ्यां निर्वाह्यम् । आगमेषु न्यायतो नेयम् । एतेन अकारहकारविवादो निरस्तः । तत्र च न विरोध इत्येके । तथा हि-अकार एव पूर्वतया परतया वा स्थित्वा षोडशवर्णमुपलक्षयति स एव उपादानम् । अत एव च अचां हलां च मध्ये यात्मकस्य तस्य पाठः । अनुभवसिद्धं च प्रथमषोडश– योर्विपर्यस्तसंहितायां हत्वम् । यथेकारादीनां यत्वादिकमिति । उक्तं चैतल्लक्ष्मीतन्त्रे । अत एव * अ इति ब्रह्म इति षोडशकशिरस्क एव अकार आम्नायते । अन्ये त्वेवं मन्यन्ते न तावत् प्रणवे तस्य श्रवणमस्ति । नापि अकारो वै सर्वा वाक् इत्यान्नातम् । नापि ओकारादेशः सविभक्तिकतया घटते । विष्णुरेव सर्वकारणमिति प्रमाणनिर्णीतम् । तस्य प्रथम एव वाचकतया प्रसिद्धः । यद्यपि क्वचित् प्रमाणभूते तने हकारपरिग्रहोऽप्यस्ति; तथाऽपि तस्य परमात्माक्षरत्वमभ्युपगम्येति मन्तव्यम् । प्रणवात्सर्वोत्पत्तिप्रकारस्तदंशद्वारेति श्रुत्यादिभिरनुसन्धेयः । तत्र त्रिवेदीप्रसङ्गे मकारपर्यन्तनिरूपणम् । अथर्वादिविवक्षायां तु नादशिरस्त्वम् । तदेवमकारगार्हपत्यगायत्रीप्रथमपादऋग्वेदस्वर्लोकादिप्रकारेणावान्तरगर्भभेदोऽनुसन्धेयः । अकारात् प्रणवोत्पत्तिः कथम्? इति चेत् , अकारवाच्यात् परमात्मनः प्रणवाधिष्ठातृदेवताया वा तदंशदेवतादीनां वोत्पत्तैरिति सुस्थम् । तदेवमद्रव्यत्वपक्ष एव शब्दस्य श्लाघ्यः । एवं च सति श्रोत्रवृत्तिर्वा, व्यञ्जकवाय्वागमनं वा, शब्दवाद्यवयवागमनं वा, शब्दवद्वाय्वागमनमेव वा, यथाप्रतीति भाव्यमिति ॥