वर्णानां स्फोटाधुपादानकत्वनिरासः ॥ वर्णानां स्फोटाधुपादानकत्वं चागमाध्यक्षविरुद्धम् । स्फोटे च नास्मदाद्यध्यक्ष प्रमाणम् । योगिप्रत्यक्षं तु सन्दिग्धम् । न चागमः । कल्पकास्त्वन्यथासिद्धाः । प्रत्येकसमुदायादिविकल्पा वाचकत्व इव स्फोटाभिव्यक्तावपि समाः । कल्पनं तु भवतामधिकम् । एतेन वाक्यस्फोटोऽपि स्फुटितः । शब्दादर्थ प्रतीम इत्यपि न निरंशैक्यविषयकमेकवचनम् । विपरीतोपलम्भात् । ब्रह्मण एव स्फोटशब्दवाच्यत्वे न नो विरोधः । अध्यासादयस्त्वद्वैतमतवत् दूष्याः । शाब्दस्मृतिः स्फोटाभावेऽपि सिध्यति । न च तैः सर्व समञ्जसं वाच्यम् , न च पाणिन्यादिभिस्तथोक्तम् , इतरे तु नीरन्ध्रकायासिनोऽनादरणीयाः । उक्तं च भट्टपराशरपादैः
* प्राक्प्रयोगानुसारेण प्रकृतिप्रत्ययस्वरान् । प्रकल्प्य वैयाकरणैर्युत्पाद्या पदपद्धतिः ॥ इति ॥ सत्त्वादिगुणोक्तनयाच शब्दानामद्रव्यत्वसिद्धिः ॥