शब्दस्याद्रव्यत्वम् ॥ शब्दोऽस्मदादिश्रोत्रग्राह्यः पञ्चभूतवर्ती । स द्विधा-वर्णात्मकोऽवर्णात्मकश्चेति । अकचटतपयादिप्रकाराभावसमुदायशून्यो वर्णात्मकः । स एव देवमनुष्यादिताल्वादिव्यङ्गयः । तस्यैव पूर्वोक्तवाचकत्वादिविचारः । स च क्षकारेण सह एकपञ्चाशत्प्रकारः । मातृकापाठे ललयोरभेदात् पञ्चाशत्प्रकारतैवोच्यते । यरलादेरेव भेदभिन्नः क्यक्रादिः । सन्ध्यक्षराणां ह्रस्वाः सन्तीत्येव । प्रयुज्यन्ते प्राकृतादिभाषासु, निबन्नन्ति च मातृकायां द्रमिडादयः । संस्कृते वाचकत्वाभावात् मातृकाबहिष्कारः । एवमेषामेव यथाकथंचित् त्रिषष्टिवर्णता मोक्षधर्मादौ गीयते । परमव्योम्नि च सहस्राक्षरत्वाम्नानं तु तत्रैव वर्णान्तरसद्भावेन वा, तेषामेव वर्णानां सन्दर्भसंयोगादिविशेषेण सहस्राक्षरत्वायुताक्षरत्वादिभेदेनोपपत्तेर्वा । अकचटतपयादिसमस्तप्रकाराभावसमुदायवानवर्णात्मकः । स च वादित्रवारिधरमारुतविभागादिव्यङ्गयः । द्विविधोऽपि श्रोत्रदेशसन्निहित एव मारुतव्यङ्गय इति पक्षे नभोनिष्ठस्यैव तस्य ग्राह्यत्वम् । वादित्रादिस्थित एव गृह्यत इति पक्षे पञ्चभूतवर्तिनोऽपि ग्राह्यत्वमुपपद्यते । तत्र दूरस्थशब्दग्रहणे श्रोत्रव्यापृतिरेव वरदनारायणभट्टारकैरुक्ता
* दूरे शब्दः समीपे च प्राच्यां चेत्यादिदर्शनात् । गत्वा श्रोत्रेन्द्रियं तत्रतत्र शब्दग्रहक्षमम् ॥
आगता दूरतः शब्दमाला श्रोत्रेण गृह्यते । समवायाद्यदि तदैवं न गृह्येत दूरजा ॥
शब्दमान्द्यादिभिर्दूरोत्थत्वादिग्रहसंभवे । अपि प्राच्या प्रतीच्यां चेत्येवं न ग्रहसम्भवः ॥ इति । स चायं शब्द आकाशेन सहोत्पद्यते, तद्विलये च विलीयते । वाय्वादीनामप्याकाशभागत्वान्न भूतान्तरोत्पत्तिविनाशयोरस्योत्पत्तिविनाशौ । यद्वा आकाशनिष्ठस्याकाशेन सहोत्पत्तिविनाशौ वाय्वादिनिष्ठस्यापि तत्ततैस्सहेति । अत्यन्ततीव्रताद्यापन्नेषु शब्देषु विरुद्धधर्मविरुद्धप्रत्यभिज्ञानात् स्थिरत्वम् ॥
* वेणुरन्ध्रविभेदेन भेदः षड्जादिसंज्ञितः । अभेदव्यापिनो वायोस्तथाऽसौ परमात्मनः ॥ इत्यादिभिः षड्जादीनां तीव्रत्वादिभेदानां व्यञ्जकवायुधर्मत्वं श्रयते । अत एवाकल्पवर्तिनां सर्वगकाराणामेकत्वम् , एवमन्येषामपि । यत्तु श्रीविष्णुचित्तैरुक्तम्-* श्रोत्रमपि इतरेन्द्रियविषयवत् शब्दत्वगत्वमृदुत्वपरुषत्वमन्दत्वमध्यमत्वाद्यनन्तविशेषात्मकवस्तुग्राहकम् इति, तदपि निर्विशेषवस्तुग्रहणनिराकरणाभिप्रायम् । उपनिषद्याख्याने * त्वमेव प्रत्यक्षं ब्रह्मासि इत्यत्र वायोर्व्यञ्जकत्वस्यैवाभिधानात् । * नमस्ते वायो, त्वमेव प्रत्यक्षं ब्रह्मासि, त्यामेव प्रत्यक्षं ब्रह्म वदिष्यामि इति श्रुतिवशात् , * वेणुरन्ध्र इत्युपबृंहणवशात् , कल्पनालाघवाच्च व्यञ्जकत्वेन परैरभिमतो वायुविशेष एव तत्तव्यविशेषघट्टनसंस्कारवशोत्पन्नतत्तच्छब्दगुणविशिष्ट उपलभ्यत इति भावयन्ति । संग्रहस्तु-अव्यक्तपरिणामविशेषशरीरकपरमात्मोपदानकाः सर्वे शब्दाः । न पुनः पृथग्द्रव्यतया गुणतया वा भट्टप्राभाकरमतवत् नित्याः न चानुपादानकाः ॥