76 सत्त्वरजस्तमसाम् अद्रव्यत्वनिरूपणम्

गुणानामद्रव्यत्वम् । तत्र प्रकाशसुखलाघवादिनिदानमतीन्द्रिय शक्त्यतिरिक्तमद्रव्यं सत्त्वम् । तत् द्विधा-शुद्धमशुद्धं चेति । रजस्तमश्शून्यद्रव्यवृत्ति सत्त्वं शुद्धसत्त्वम् , तत् नित्यविभूतौ । रजस्तमस्सहवृत्ति सत्त्वमशुद्धसत्त्वम् , तत् त्रिगुणे । सत्त्वलक्षण एव लोभप्रवृत्त्यादिनिदानम् , प्रमादमोहादिनिदानम् इति विशेषणविनिमयेन रजस्तमसोर्लक्षणे। त्रीण्यप्येतानि यावत्प्रकृतिव्याप्तान्यनित्यानि नित्यसन्तानानि । तानि प्रलयदशायामत्यन्तसमानि, सृष्टयादौ विषमाणि, क्रमात्सृष्टिस्थितिसंहारोपयुक्तानि। ईश्वरसङ्कल्पादिसहकारिभेदात् परस्पराभिभवोद्भवसहकारित्वादिमन्त्येतानि । तत्तददृष्टोपष्टब्धपुरुषभेदादुद्भवसमत्वादिभावात् । यथोक्तं भगवता पराशरेण-* वस्त्वेकमेव इत्यादि, * तदेव प्रीतये भूत्वा इत्यादि च । भगवद्गीतायां तद्भाष्ये च एतद्विशदमनुसन्धेयम् । सात्त्विकराजसतामसकार्यगतिकर्माहारदानादिविभागोऽपि तत्रैव प्रपञ्चेन द्रष्टव्यः । एषां चाद्रव्यत्वं शारीरकभाष्ये व्यक्तम्-* रचनानुपपत्तेश्च इत्यादिसूत्रे * चकारादन्वयस्यानैकान्त्यं समुच्चिनोति इत्युपक्रम्य * यतसत्त्वादयो द्रव्यधर्माः, न तु द्रव्यस्वरूपम् । सत्त्वादयो हि पृथिव्यादिगतलघुत्वप्रकाशादिहेतुभूतास्तत्स्वभावविशेषा एव । न तु मृद्धिरण्यादिवव्यतया कार्यान्विता उपलभ्यन्ते । गुणा इत्येव च सत्त्वादीनां प्रसिद्धिः इति । तथा दीपे च-* चकारात् सत्त्वादीनां द्रव्यगुणत्वेन शौक्लयादेरिवोपादानकारणत्वासम्भव समुच्चिनोति । सत्त्वादयो हि कार्यगतलाघवादिहेतवः कारणभूतपृथिव्यादिगतास्तत्स्वभावविशेषाः इति । यत * द्रव्यं षड्विंशतिविधं सत्त्वरजस्तमांसि इत्यादिना सत्त्वरजस्तमसां द्रव्यत्वमुक्तं वरदविष्णुमिरैः, तत्सांख्याधिकरणसूत्रभाष्यादिविरोधाच्चासङ्गतम् ॥