75 दशानामेव स्फुटपरिगणनीयानाम् अद्रव्याणां निरूपणम्

अथ अद्रव्यपरिच्छेदः ॥६॥
अद्रव्याणि दश ॥ अथाद्रव्यम् । संयोगरहितमद्रव्यम् । तत्र च त्रिगुणे सदृशविसदृशरूपोऽवस्थासन्तानः, कालेऽपि क्षणलवनिमेषत्वादिपराधपर्यन्तः, बुद्धौ प्रत्यक्षत्वानुमितित्वश्रौतत्वादिरूपः, शुद्धसत्त्वेऽपि केचित् त्रिगुणसमा इत्यनन्तप्रकारो यथाप्रमाणमनुसन्धेयः । एतदपेक्षया च वरदविष्णुमित्रैरुक्तम्-* गुणाश्चानन्ताः इति । तेषां चानन्तवैषम्यस्य विविच्य निर्देष्टुमशक्यत्वात् शक्यांशस्य च द्रव्यनिरूपणेनैव निरूपितप्रायत्वात् तथाऽतिरिक्तनिरूपणस्य च लोकव्यवहारादृष्टाधुपयोगाभावादन्यानि स्फुटपरिगणनीयान्यद्रव्याणि निरूप्यन्ते । तानि-सत्त्वरजस्तमांसि, शब्दादयः पञ्च, संयोगः, शक्तिः इति दशैव । एवंविधेष्वेवाद्रव्येषु गुरुत्वद्रवत्वस्नेहसंस्कारसङ्ख्यापरिमाणपृथक्त्वविभागपरत्वापरत्वकर्मसामान्यसादृश्यविशेषसमवायाभाववैशिष्ट्यादीनां यथासंभवमन्तर्भावः । एष्वपि केषाञ्चिदनन्तर्भावः सयूथ्यसम्मतस्तत्रतत्र वक्ष्यते । सयूथ्याङ्गीकृतैः कैश्चित्सहैकत्वादयस्तत्त्वमुक्ताकलापे अद्रव्यभेदा अस्माभिरुक्ताः ॥