74 स्थायिभावादीनां बुद्धिपरिणामत्वम्

स्थायिभावादीनां बुद्धिपरिणामत्वम् ॥ भरतादिपठिताश्च रत्यादयः स्थायिभावास्तत्परिणामरूपाः । सञ्चारिभावेषु च निर्वेदादयः स्वावमाननादिरूपबुद्धिविशेषा एव । ग्लान्यादयस्तु शरीराद्यवस्थाविशेषाः । स्वप्नशब्दस्यापि स्वप्नदर्शनाभिप्रायत्वे बुद्धिविशेषविषयत्वं व्यक्तम् । सुषुप्तयभिप्रायत्वेऽप्यमूर्छितस्य जीवतः समस्तज्ञानप्रसररहितावस्थाविषयत्वम् । एवं जाड्यादिष्वपि चिन्त्यम् । निद्रा तर्हि कस्यावस्था? चिन्तालस्यक्लमादिभिः संमीलतो मनसः, ज्ञानस्यैव वा। सैव सुषुप्तबादिकारणम् । कथं तर्हि * अभावप्रत्ययालम्बना वृत्तिर्निद्रा इति पारमर्ष सूत्रम्? इत्थम्-समाधिमधिगच्छतो वृत्त्यन्तरवन्निरोद्धव्यत्वाभिप्रायम् , निरोधपरत्वात् प्रकरणस्येत्ययमर्थ आत्मसिद्धावुक्तः । बुद्धेश्च निर्विषयत्वनिराश्रयत्वनिर्धर्मकत्वादिगोचरा दुरूहाः शून्यवादवदुपलम्भविरोधादिभिर्दूषणीयाः । असत्ख्यात्यात्मख्यात्यनिर्वचनीयख्यात्यादयश्च न्यायपरिशुद्धावस्माभिर्दूषिताः । तथा प्रमाणप्रमेयादिकं व्यवहारौपयिकमखिलमपि तत्रैव प्रपञ्चितमिति नेह प्रस्तूयते । वैशेषिकशैलीमनुसृत्य यथावस्थितपदार्थस्वरूपं ह्यत्र विशोध्यत इति ॥
माहाभाग्यवशंवदीकृतयतिक्षोणीशवाणीशता भूयाद्भोगसमेधकश्रुतिशिरःप्रासादमासेदुषी । नित्यानन्दविभूतिसन्निधिसदासामोददामोदरस्वैरालिङ्गनदोर्ललित्यललितोन्मेषा मनीषा मम ॥
॥ इति श्रीन्यायसिद्धाञ्जने बुद्धिपरिच्छेदः पञ्चमः ॥