73 अदृष्टस्य ईश्वरप्रीतिकोपात्मकत्वनिरूपणम्

अदृष्टमीश्वरप्रीतिकोपौ ॥ एवमदृष्टमपीश्वरप्रीतिकोपात्मकमेव । तद्विषयत्वप्रतिनियमादेव च क्षेत्रज्ञानां कर्मफलनियमोपपत्तिः । शास्त्रगम्यत्वाच्चास्य तथात्वमवसीयते । तथा च द्रमिडाचार्यभाष्यम्-* फलसंबिमन्त्सया कर्मभिरात्मानं पिप्रीषन्ति इत्यादि । भाष्यमपि-* शास्त्रैकसमधिगम्य एव इत्यादि । सूत्रकारैरेव एतद्विशदमुपपादितम्* फलमत उपपत्तेः इत्यादिभिः । यत्त शरीरादिकं भोक्तृविशेषगुणप्रेरितभूतपूर्वकम् तद्भोगसाधनत्वात् स्रगादिवदिति सिद्धे ज्ञानाद्यनुपपत्तेः परिशेषाज्जीवसमवेतादृष्टसिद्धिरिति वैशेषिकादिभिः स्वीक्रियते, तदसत्; अस्मदुक्तादृष्टादेव नियमोपपत्तौ विपक्षे बाधकाभावात् । न चान्यत्र भोगप्रसङ्गः; नियामकस्येच्छादेरध्यक्षत्वात् । एवं च सति अग्नीन्द्रादिदेवताप्रीत्यादेरपि श्रुतिसिद्धत्वेनैवादृष्टतया स्वीकारे न दोषः । तेषामपि फलप्रदातृत्वमीश्वराधीनम् । सर्वत्र साधारणमीश्वरप्रोत्यात्मकमदृष्टम् । तथा च स्वयमेवाह-* अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च इति । ईश्वरज्ञानस्य कोपाद्यात्मकत्वं विविधकर्मोपाधिकम् । न चैष दोषः; स्वाज्ञापरिपालनानुरूपगुणत्वात् । एवं सौशील्यवात्सल्यसौहार्दप्रभृतयोऽपि बुद्धिविशेषाः ॥