ईश्वरज्ञानस्येच्छाद्याकारत्वम् ॥ तर्हि नित्यसर्वविषयस्य ईश्वरज्ञानस्य कथमिच्छाद्याकारत्वम्? इति चेत्; उपाधिविशेषाद्वा, अनित्यज्ञानान्तरसद्भावाद्वा, यथातथा वा भवतु । अभ्युपगतं हीन्द्रियजन्म अनित्यमपि ज्ञानमीश्वरस्यास्तीति वरदविष्णुमिश्रादिभिः; यदुक्तम्-* ईश्वरज्ञानस्यानित्यस्य सर्वविषयनित्यज्ञानगृहीतग्राहित्वात् इति, * अस्यापीन्द्रियजत्वात् इति च । प्रज्ञापरित्राणे स्वयंसिद्धिप्रकरण एवमुक्तम्
* सुखदुःखे च विज्ञानविशेषाविति केचन । तन्न साधु शरीरस्य पादादिषु हि ते अमू ॥
तत्रतत्रात्मनस्तस्यासन्निधानादणुत्वतः । तद्धर्मभूतविज्ञानस्यापि नैवास्ति सन्निधिः ॥ इत्युक्त्वा, अनन्तरं जीवस्य बन्धमोक्षावस्थयोर्द्वयोरप्यणुत्वमुपपाद्य, * यावदाश्रयवत्येव विगीतं ज्ञानमुच्यते ॥
धर्मत्वे सति धीत्वेन ब्रह्मविज्ञानवत्ततः । गुणत्वमेव ज्ञानस्य न तु द्रव्यत्वसंभवः ॥ अतीतानागता अर्था अपि भान्ति च धीबलात् । संयोगमनपेक्ष्यैव सर्वत्राप्यर्थकृत्यकृत् ॥ तस्माद्विषयविषयिभावः संबन्ध एव हि । ज्ञानार्थयोस्तु संबन्धः सोऽखिलैरपि संविदः ॥ स्वतस्सर्वार्थसंबन्धिन्येषा धीः सर्वगोच्यते । अगत्वा सर्वसंबन्धि सर्वग्राहि प्रचक्षते ॥ स्वाश्रयायुक्तवस्तुष्वप्यस्याः कार्यकरत्वतः । गुणवैरूप्यसद्भावाव्यता भाष्यभाषिता ॥ स्वाश्रयश्लिष्ट एवाथै स्पर्शाद्याः कार्यकारिणः । दाहस्फोटादिकार्य ते कुर्वते नेदृशी हि धीः ॥ गुणवैरूप्यमेवास्या द्रव्यशब्देन लक्ष्यते । भावान्तरं तदा प्राप्तं शक्तिवज्ज्ञानमप्यतः ॥
द्रव्यत्वपक्षे ज्ञानस्य परिणामानिरूपणात् । वैयर्थ्याच्च गुणो वा तद्भावान्तरमथापि वा ॥ देहदेशोत्थमप्येतत् सुखं दुःखं च देहिनः । आत्मनो धीमहिम्नैव भासेते ते तथातथा । अनात्मकशरीरे तददृष्टेरात्मनो गुणौ । इति चेन्नाशरीरस्यासंभवान्नात्मनो गुणौ ॥ सकर्मकात्त देहस्य गुणौ ते आत्मनो गुणात् । ज्ञानाद्भात इति प्राज्ञैः परिकल्प्यमिति स्थितिः ॥ कर्मिणश्चेतनस्यानुभाव्यत्वेनैव संभवः । तयोरिति प्रकाशेनाव्यभिचारोऽन्यथा वृथा ॥ इच्छादयो न देहैकदेशवर्तिन इत्यतः । आत्मनः स्युगुणा ज्ञानविशेषाश्च प्रकीर्तिताः ॥ जलाधारेष्वनेकेषु भास्करस्योपलब्धिवत् । अणोरप्यात्मनोऽनेकदेहेष्वस्तूपलम्भनम् ॥ योगिनां शक्तिवैचित्र्यादीश्वरानुग्रहेण वा । बहुदेहाः प्रवर्तन्त एकदेहवदञ्जसा ॥ अन्तरालाग्रहातेषां स्वात्मनश्च स्वयेच्छया । सन्निधानोपलब्धिः स्यात् तत्रतत्राहमित्यपि ॥ प्रतिदेहं विविक्तानि मनःप्रभृतिकान्यपि । इन्द्रियाणीश्वरेच्छाद्यैः प्रवर्तन्ते तु योगिनः ॥ मुक्तश्चानेकदेहान्संगृह्णाति स्वेच्छयैव तु । सर्वज्ञ एव कामान्नी कामरूप्यनुसञ्चरेत् ॥ प्रदीपः प्रभयेवात्मा ज्ञानेनाखिलमाविशेत् । इत्यादिव्यवहारश्च प्रकाश्यत्वनिबन्धनः ॥ अतीतानागता नार्थाः प्रभया भान्ति जातुचित् । ते च ज्ञानेन भान्त्यातो न साम्यं सर्वथा मतम् ॥ स्वरूपेणाणुरात्माऽयं गुणद्वारेण सर्वगः । उभयव्यवहारोऽपि युज्यते प्रत्यगात्मनः ॥ परमात्मा स्वरूपेणाप्यशेषव्यापकः श्रुतेः । सर्वान्तर्याम्यनन्तश्च तथाऽतः सर्वगो मतः ॥ अक्षव्यापृत्यभावेन सुषुप्तौ नार्थभासनम् । धियो धीमात्रमात्मा च तदा स्वैरं प्रकाशते ॥ अस्वाप्सं सुखमेतावत्कालमित्युत्थितः पुमान् । परामृशंस्तदाऽप्यात्मभासनं विविनक्ति हि ॥ मामन्यं च न जानामीत्येवमादिनिषेधधीः । मानुष्यादिविशिष्टात्मपरागर्थैकगोचरा ॥
अहंशब्दानुविद्धा धीः सुषुप्तौ नास्ति तत्र तु । प्रत्यगर्थस्वरूपं तु भात्याग्राहिधीगुणम् ॥ इत्यस्यानन्तरमहमर्थत्वमात्मानः प्रतिपाद्य, ज्ञानस्यानुमेयत्वपक्षं च निरस्य, पुनरपि सुखदुःखे प्रयुज्य
* प्रतिकूलानुकूले तु दुःखमन्यच्च कर्मिणः । भोक्तु तोऽनयोस्तेन प्रकाशाव्यभिचारिता ॥ प्रकाशव्यभिचारे तु तत्सत्तैव वृथा भवेत् । भोगार्थ तु तदुत्पत्तिभोंगो न स्यादभासने ॥ इच्छाद्वेषप्रयत्नादिशब्दधीरभिधीयते । अर्थभेदानुविद्धास्ते धीविशेषाः प्रकीर्तिताः ॥ न च देहैकदेशेषु प्रकाशन्ते सुखादिवत् । कित्वात्मस्था न हीच्छा मे पाद इत्यस्ति धीर्नृणाम् ॥
पादे दुःखं हस्तयोमें सुखमित्यादिकाऽस्ति धीः । धीभेदास्तत इच्छाद्याः सुखदुःखे तनोर्गुणौ ॥ इत्युपसंहृतम् । पाणिपादादिदेहैकदेशवर्तितयोपलम्भेन सुखदुःखयोर्दै हैकधर्मत्वम् , इच्छादेस्तु तथाऽनुपलम्भेन ज्ञानविशेषत्वोपपत्तिः, ज्ञानस्य स्वाश्रयादन्यत्रावतमानत्वम् , संयोगमनपेक्ष्य विषयविषयिभावेन प्रकाशकत्वम् , अद्रव्यत्वम् इत्याद्यर्था भाष्यादिविरुद्धाः परतन्त्रदन्तिदन्तादन्तितन्द्रालुतया परिगृहीताः । न्यायसुदर्शने तु तैरेव सुखदुःखयोरात्मधर्मत्वं चोक्तम्; तथा हि * भाष्ये मनुष्यादिपिण्डविशिष्टस्यात्मनः सुखित्ववचनं न विशेषणभूतशरीरस्यापि, आत्ममात्रस्यैव सुखाश्रयत्वात् । किंतु शरीरे वर्तमानस्यैवात्मनो वैषयिकसुखादिमत्त्वमिति तद्विशिष्टात्मनस्तद्वत्त्वमयमात्मा सुखीत्यनेनापि प्रतीयत इत्यर्थः ॥