71 सुखादीनां बुद्धिविशेषत्वनिरूपणम्

सुखादीनां बुद्धिविशेषत्वम् । बुद्धिरेवोपाधिभेदात् सुखदुःखेच्छाद्वेषप्रयत्नरूपा; सुखादिजनकतयाऽभ्युपगतज्ञानातिरेके प्रमाणाभावात् । इच्छामि द्वेष्मीत्यादिव्यवहारस्य स्मरामीत्यादिवज्ज्ञानविशेषेणैवोपपत्तेः । वैषयिकसुखदुःखरूपत्वं ज्ञानस्य विषयाधीनमित्यनुकूलत्वप्रतिकूलत्वाविशेषात् विषयस्यापि सुखदुःखशब्दवाच्यत्वमस्त्येव । प्रपञ्चितमिदं अमाधिकरणे । तथा वेदार्थसंग्रहे-*विषयायत्तत्वात् ज्ञानस्य सुखरूपतया ब्रह्मैव सुखम् इत्युक्तम् । सुषुप्त्याद्यवस्थासु प्रयत्नो नास्त्येव; अनुपलम्भात् । अदृष्टादिवशाच्च निश्वसितादिसिद्धिः । परैरपि तत्रैव प्रयत्नकारणतयाऽदृष्टादिकमभ्युपगतम् । तन्निश्वासाद्यर्थमेव भवतु । अतो मध्ये प्रयत्नकल्पकप्रमाणं स्पन्दत्वादिहेतुरन्यथासिद्धः । उक्तं च * अन्तराभूतग्रामवत् इत्याद्यधिकरणे भाष्ये-* प्रत्यगात्मनः सुषुप्तौ प्राणनं प्रति कर्तृत्व भावात् इत्यादि, * तस्य सुषुप्तिमूर्छादौ प्राणनादेरकर्तृत्वात् इत्यादि च । कर्तृत्वाभावेऽपि कृतिविजातीयकल्पनं प्रयत्नकृतिशब्दपर्यायत्वप्रसिद्धिगौरवाभ्यां प्रतिहतम् । नन्वात्मगुणाः सुखादयो मा भूवन् , मनोवृत्तिभेदास्तु भविष्यन्ति । तथा चात्मसिद्धावुक्तम्* यत्तु सुखादिनिदर्शनेनात्मविशेषगुणतया चितेरागन्तुकत्वमुपपादितम्, तदपि गुणवृत्तापरिज्ञानेन इत्युपक्रम्य * सुखदाखे च नात्मधर्माविन्द्रियसौष्ठवनाशयोरेव तद्भावोपपादनात् । व्याकरिष्यते चैतदन्तिमपादार्थसमर्थनावसर इति साधनविकलता च निदर्शनस्य । रागद्वेषादयोऽपि मनोवस्थाविशेषाः, न साक्षादात्मगुणाः । विज्ञायते हि * कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धाधृतिरधृतिहींधी रेतत्सर्वं मन एव इति । गीयते च-* इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतनाधृतिः [इति क्षेत्रलक्षणम् ] । एतत्क्षेत्रं समासेन इति गीतां चोदाहृत्य तदर्थं शरीरलक्षणं चोपपाद्य, पुनः * किमिदं धीः इति धीशब्दसहपाठमाशङ्कय *उत्प्रेक्षाभिप्रायं तत् , न ज्ञप्तिविषयम्; तस्याः स्वाभाविकत्वस्य तस्यामेव श्रुतौ श्रूयमाणत्वात् । श्रूयते हि-* न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते इति-इत्याद्युक्तम् । तथा * पञ्चवृत्तिर्मनोवल्यपदिश्यते इति सूत्रे *यथा न कामादिकं मनसस्तत्त्वान्तरम् *कामस्सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्दी/भी रेतत्सर्वं मन एव इति वचनात् , एवं * प्राणो व्यानोऽपानोदानस्समान इत्येतत्सर्वं प्राण एवेति वचनादपानादयोऽपि प्राणस्यैव वृत्तिविशेषाः, न तत्त्वान्तरमित्यवगम्यते इति भाष्यम् । तत्कथं सुखादीनामात्मगुणत्वम्?
अत्रोच्यते-अश्रुतसिद्धान्तस्यपुस्तकनिरीक्षणादयं दोषः । तथाहि-आत्मसिद्धौ तावत्-यत्तु सुखादिनिदर्शनेन इत्यस्यानन्तरम् ,
* स्वरूपोपाधयो धर्मा यावदाश्रयभाविनः । नैवं सुखादिबोधस्तु स्वरूपोपाधिरात्मनः ॥ यथा च बोधोपाधिरात्मभावस्तथोपपादितम् इति स्वाभाविकत्वास्वाभाविकत्वाभ्यां बोधमात्रस्य सुखादेश्च भेदमभिधाय *सुखदुःखे च नात्मधर्मों इत्यादि तु वैभववादेन, मतान्तरेण वाऽभिहितम् । अन्यथा कथमेवमुपसंहारारम्भे ब्रूयात्-* तदेवमात्मस्वभावभूतस्य चैतन्यस्य विषयसंश्लेषविशेषगोचर एव निश्चयसंशयादिव्यवहारभेदः, तद्विशेषभाजि चैतन्ये वा इति । आगन्तुकत्वे इन्द्रियोपाधिकत्वाद्यविशेषात् । न च तथोक्तम् , अन्यथा चोक्तम् । नन्वश्रुतसिद्धन्तास्येति भवत एव दोषः; न स्यात्-न्यायतत्त्वशास्त्रप्रकरणं ह्यात्मसिद्धिः। तत्र च शास्त्रे ज्ञाननिरूपणात्मकप्रथमपादषष्ठाधिकरणे सर्व स्पष्टम् । सूत्रभाष्ययोश्च अयं भावः-तत्तदवस्थज्ञानजनकत्वावस्थाभेदभिन्नं मनः, तैस्तैर्व्यपदिश्यते इति । नियूढं च तुल्यन्यायमन्यत् * सप्त गतेः इत्यधिकरणे-* अध्यवसायाभिमानचिन्तावृत्तिभेदात् मन एव बुद्ध्यहङ्कारचित्तशब्दैर्व्यपदिश्यत इति । उक्तं च वेदार्थसंग्रहे-* दुःखाज्ञानमला धर्माः प्रकृतेस्ते न चात्मनः इत्यत्र प्रकृतिसंसर्गकृतकर्ममूलत्वान्नात्मस्वरूपप्रयुक्तधर्मा इत्यर्थः । प्राप्ताप्राप्तविवेकेन प्रकृतेरेव धर्मा इत्युक्तम् इति । तथा तत्रैव* भक्तिशब्दश्च प्रीतिविशेषे वर्तते । प्रीतिश्च ज्ञानविशेष एव इत्युक्त्वा * ननु च सुखं प्रीतिरिति नार्थान्तरम् । सुखं च ज्ञानविशेषसाध्य पदार्थान्तरमिति हि लौकिकाः इति चोद्यं कृत्वा * नैवम्; येन ज्ञानविशेषेण तत् साध्यमित्युच्यते, स एव ज्ञानविशेषः सुखम् । एतदुक्तं भवति–विषयज्ञानानि सुखदुःखमध्यस्थसाधारणानि । तानि च विषयाधीनविशेषाणि तथा भवन्ति, येन विषयविशेषेण विशेषितं ज्ञानं सुखस्य जनकमित्यभिमतम् , तद्विषयज्ञानमेव सुखम् । तदतिरेकिपदार्थान्तरं नोपलभ्यते । तेनैव सुखित्वव्यवहारोपपत्तेश्च इत्याद्युक्तम् । *इच्छा द्वेष इत्यादिभगवद्गीतावचनं तु तत्रैव भाष्यकारैर्नियूंढम्-*इच्छा द्वेषः सुखं दुःखमिति क्षेत्रकार्याणि क्षेत्रविकारा उच्यन्ते । यद्यपि इच्छाद्वेषसुखदुःखान्यात्मधर्मभूतानि, तथाऽप्यात्मनः क्षेत्रसंबन्धप्रयुक्तानीति क्षेत्रकार्यतया क्षेत्रविकारा उच्यन्ते । तेषां पुरुषधर्मत्वम्-* पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते इति वक्ष्यते इति । उक्तं च श्रीराममित्रैः पडर्थसंक्षेपे-* वेद्यभेदधीभेदः सुखम् , अन्यादृष्टेः इत्यादि । उक्तं च श्रीवरदविष्णुमित्रैरपि-* सुखदुःखे तावदनुकूलप्रतिकूलविषये ज्ञाने एवेति गुणेष्वन्तर्भाव एव–इत्यादि । उक्तं च सङ्गतिमालायां श्रीविष्णुचित्तैः-* एवं परमात्मनः पावकप्रकाशौप्ण्यादिस्थानीयं जीवस्वरूपमपि सुषुप्तिसंहारयोः परमात्मनो भेदकसंशयनिर्णयविपर्ययायथाज्ञानप्रत्यक्षानुमानागमरागद्वेषलोभमोहमदमात्सर्यधैर्यविचिकित्साश्रद्धालज्जाभयाद्यनन्तज्ञानप्रसरणरूपविकारभेदशून्यम् इत्यादि । तत्सिद्धं सुखादयो बुद्धिविशेषा इति ॥