बुद्धिविषये चोद्याः परिहाराच ॥ १. ननु वुद्धेर्नित्यत्वे किं प्रमाणम्? २. तथात्वे कथं जागरसुषुप्त्यादिभेदसिद्धिः? ३. किं च प्रमाणं प्रसरणे? ४. कथं चात्मगुणभूताया बुद्धेद्रव्यत्वम्? ५. किं च द्रव्यत्वे प्रमाणम्? ६. कथं चात्मधर्मभूतायास्तस्यास्स्वाश्रयादन्यत्र गमनम्? ७. कथं चोपचयविरलभावाभावे परिमाणान्तरयोगः? ८. कथं चातीतानागतैस्संबन्धः संयोगः? ९. कथं च गुणादिभिः? १०. कथं वा मध्यस्थितानां संबद्धानामप्रकाशत्वम्? ११. कथं च मुक्तबुद्धेर्युगपत्क्रमेण वाऽनन्तदेशसंयोगः? १२. कथं च व्याप्तायां स्वबुद्धिचन्द्रिकायां प्लवमानस्य स्वलालातन्तुविताने लगन्त्या लूतिकाया इव सञ्चाराधीनतत्तद्बुद्धिप्रदेशसंयोगस्य स्वबुद्धया सह बुद्धयन्तरव्यावृत्तः स्वाभाविकस्संबन्धः? इति । तत्र पूर्वस्मिन्नागम उत्तरम् । यथा * न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते, * न हि द्रष्टदृष्टेविपरिलोपो विद्यते, * अविनाशित्वात् इत्यादि । व्याख्यातं चैतदात्मसिद्धौ *ज्ञातुरविनाशित्वादेव ज्ञानस्याप्यविनाशित्वमुपपादयन्ती श्रुतिरियं ज्ञातृस्वरूपप्रयुक्तं ज्ञानमिति दर्शयति इति । अत्र स्मृतिरपि
* यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ॥ यथोदपानकरणात् क्रियते न जलाम्बरम् । सदेव नीयते व्यक्तिमसतः संभवः कुतः ॥
तथा हेयगुणध्वंस दवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥ इत्यादि । सूत्रं च * ज्ञोऽत एव इति, * यावदात्मभावित्वाच्च न दोषस्तदर्शनात् इति च । द्वितीये तु प्रतिबन्धकं तमः । यथा दाहकस्य वह्नेमण्यादिसन्निधावदाहकत्वम् , तदपगमे च हेत्वन्तरनिरपेक्षदाहकत्वम् , तद्वत् तमोविशेषसन्निधानासन्निधानाभ्यां स्वापादिसिद्धिः । उक्तं च * पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् इति । अतो जागरादिदशानियतप्रसरणा विषयप्रकाशवेलायामेव बुद्धिः प्रकाशते, नान्यदेति सुस्थम् । यत्तु षडर्थसंक्षेपे श्रीराममिश्ररुक्तम्-*सत्यं स्वतःसिद्धिः। सा सुषुप्तावपि नास्फूर्तिः । स्वाश्रयायैव हि सा भाति । स एव विशेष इति स्वावसरे वक्ष्यामः । अव्यवहारनियमस्तु करणोपरतिनियमात् इति । एवंप्रकारमेव विवरणेऽप्युक्तम् । तदेतत् वैभववाद इति मन्तव्यम् । अन्यथा * पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् इति सूत्रेण तद्भाष्येण च विरोधात् । सर्वविषयप्रकाशनशीलायाः संविदो यथा समस्तबाह्यविषयवैमुख्यं तथान्तरविषयविमुखत्वमपि भवतीति किमत्र चित्रम्? यत्तु भाष्ये-* एवं हि सुप्तोत्थितस्य परामर्शः, सुखमहमस्वाप्समिति । अनेन प्रत्यवमशेन तदानीमेवाहमर्थस्यैवात्मनः सुखित्वं ज्ञातृत्वं च ज्ञायते इत्युक्तम् , तत् स्वरूपानुकूल्यविवक्षया प्रत्यक्त्वविवक्षया चेति न विरोधः । तृतीये तु भगवद्यामुनमुनिभिरेवमेवोक्तम्; यथा *अत इन्द्रियेण सह चैतन्यमपि निस्सृत्य तेनतेनार्थेन सन्निकृष्यते हस्तादिनेव त्वगिन्द्रियम् इत्याद्यभिधाय * व्योमवदमूर्तस्य न क्रियावत्त्वमिति चेत् इत्याशङ्कय * केयं मूर्ति म? यद्विरहिणः क्रियायोगः इत्यादिना परिहृत्य व्यवहितविप्रकृष्टसंबन्धप्रकारं च प्रसाध्य * यथाऽऽह भगवान्-* तदस्य हरति प्रज्ञा वायु वमिवाम्भसि इति । मनुश्च
* इन्द्रियाणां हि चरतां यद्येकं क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा हतेः पादादिवोदकम् ॥ इति ।
अस्ति चात्र श्रुतिः * प्रज्ञा च तस्मात्प्रसृता पुराणी इति । अन्यपरत्वं श्रुतिस्मृत्योरिति चेत् स्वरसप्रतीतेर्बाधकाभावात् । बाधितांशे हि तत् । चतुर्थे निदर्शनं प्रभादि । यथोक्तं भाष्ये * प्रभाद्रव्यस्य दीपगुणभूतस्येव ज्ञानस्याप्यास्मगुणभूतस्य द्रव्यत्वमविरुद्धम् इति । प्रभायां च वक्तव्यं प्रागेवोक्तम् , प्रपञ्चितं चैव भाष्ये । कचिदाश्रितस्यैव द्रव्यस्य अन्याश्रयित्वमवयविवादिनां त्ववर्जनीयम् । किंच न तावदस्माकमद्रव्यमेव गुण इति वैशेषिकादिवन्निबन्धः; विशेषणादिवत् , यो यदाश्रितस्वभावः स तस्य गुण इति हि गुणलक्षणम्; न तु पारिभाषिकम् , सर्वव्यवहारविरोधात् । एवं च गुणेषु कश्चिद्विशेषः, द्रव्यात्मकगुणाः केवलगुणाश्चेति । पूर्वे ज्ञानादयः, उत्तरे सत्त्वरजस्तमःप्रभृतयो वक्ष्यन्ते । तत्र गुणैकरूपत्वमात्रादेव सत्त्वादिषु गुणशब्दस्य मुख्यत्वम् , ज्ञानादिषु गौणत्वम् । * अस्याश्च इति भाष्यस्य विवरणेऽप्युक्तम्-* नित्यपारतन्त्र्यागौणो गुणव्यपदेशः इति । तस्मिंस्तु पक्षे गुणत्वानभ्युपगमान्न चोद्यावकाशः । अन्ये तु तस्यैव प्रवृत्तिनिमित्तत्वेन मुख्यत्वोपपत्तेः, गौणत्वकल्पनं नानुमन्यन्ते । * अस्याश्च इत्यादिभाष्यं तु साधारणम् । * प्रभाद्रव्यस्य इत्यादिभाष्यम् , * यद्यपि प्रभा प्रभावद्दव्यगुणभूता, तथाऽपि शौक्लयादिवन्न गुणः इत्यादिभाष्यं च मुख्यपक्षस्वरसम् । यत्तु सत्त्वादीनां द्रव्यत्वप्रतिक्षेपेण * गुणा इत्येव च सत्त्वादीनां प्रसिद्धिः इति भाष्यम् , तदपि, अवधारणस्वारस्यात् द्रव्यत्वाप्रसिद्धेः । एवं वरदनारायणभट्टारकपक्षेऽपि न चोद्यावकाशः, ज्ञाने द्रव्यशब्दस्यौपचारिकत्वात् । अयमेव गुणः केषांचिद्विवक्षान्तरेण जातिगुणक्रियाद्रव्यरूपेणापि हि विकल्प्यते । यथा-अनेकेषां धर्मिणामन्तरङ्गो धर्मविशेषो जातिः । यन्निरूपिते वस्तुनि प्रायशो विशेषाकाङ्क्षाशान्तिस्सोऽन्तरङ्गः । तदनुप्राणितस्य तस्य विशेषकः सिद्धो गुणः । तथाविधं साध्यं क्रिया । एतैर्विशिष्टं द्रव्यमिति । एवमेव हि जातिगुणक्रियाद्रव्यवाचित्वं शब्दानाम् । अत्रावान्तरगुणशब्दः कथासामान्यविशेषयोर्वादशब्दवत् । अत्र चैकमेव वस्तु द्विधा, त्रिधा, चतुर्धा वा विकल्पयितुं शक्यम् । यथा ज्ञानमेव च संयोगादिमत्तया द्रव्यम् , तदेवात्मनः प्रत्यक्तया निरूपितस्वरूपस्य विशेषकतया गुणः, जानात्यादिनिर्देशे क्रिया । एवमन्यत्रापि चिन्त्यम् । सत्त्वं द्रव्यम् , असत्त्वमद्रव्यम् इति वदतां तु सर्वेषां गुणानां द्रव्यत्वं विवक्षितमित्यलं प्रसक्तानुप्रसक्त्या ॥
की पञ्चमे तु ब्रूमः-बुद्धिर्द्रव्यं प्रसरणादिमत्त्वात् संप्रतिपन्नवत् , अत्रैव साध्ये ज्ञानत्वादात्मवत् इत्यादि । वरदविष्णुमित्रैस्त्वेवमुक्तम्-* ज्ञानं द्रव्यं संयोगादृष्टान्यत्वे सति भावनाकारणत्वादात्मवत् इति । षष्ठस्य चतुर्थ एव दत्तमुत्तरम् । यदि तु स्वाश्रयत्यागोऽभिमतः; स नेष्यते । उक्तं ह्यत्रैव चोद्ये भगवद्यामुनमुनिभिः-* आत्मप्रहाणानभ्युपगमादविहायैवात्मानमितस्ततश्चेतना इन्द्रियादिद्वारा निस्सरति, विच्छिन्नायाश्च तस्याः सन्धानासंभवः शास्त्र एवोक्तः इति । सप्तमस्य अहिकुण्डलदृष्टान्तेन निरासः । नच तावता बहलविरलत्वादिप्रसङ्गः; भिदुरभागवत्स्वेव तथा व्याप्तेः । अस्तु वा बहलत्वादि, तथाऽपि न तथा द्रष्टुम् , स्पष्टुं वा शक्यम्; अतीन्द्रियत्वात् स्पर्शादिरहितत्वाच्च । न च विरलत्वे सरन्ध्रत्वनियमः; सर्वदेशनिरन्तरसंयोगयोग्यस्वरूपत्वात् । कथं तदल्पदेशे पूर्णम्? इति चेत् स्पर्शशून्यत्वेनाप्रतिघातात् । उक्तं हि निरतिशयसूक्ष्मत्वं न्यायतत्त्वे । एतेन एकस्य द्रव्यस्य कालभेदेऽपि नानापरिमाणत्वं नास्तीति वदन्तः प्रत्युक्ताः । कालभेदस्यैव विरोधशामकत्चात् , अवयव्यभावाच्च । एवं तर्हि आत्मनस्तत्तदेहानुरूपविविधपरिमाणवादिनो दिगम्बरान् प्रति अन्त्यावस्थितेश्चोभयनित्यत्वादविशेष इति सौत्रं चोद्यमत्रापि स्यादिति चेन्न; तत्र केवःयुक्त्यादिमूलार्थप्रतिक्षेपे तात्पर्यात् । अष्टमस्योत्तरमात्मसिद्धौ । तथाहि-* कथमतीतानागतयोरसतोश्चैतन्येन संप्रयोगः इत्याशङ्कय विषयविषयिभावप्रकाशमानत्वसंख्यादियोगदवीयोदेशवर्तिज्ञानशीघ्रसंयोगप्रतिबन्दीभिः परिहृतम् । तथा * अतीतानागततया तावप्यद्यापि विद्यते इति तेन रूपेण बोधसनिक नानुपपत्तिः इति च तद्व्यसत्तया संयोगोपपत्तिरुपपादिता । तत्रैवमाशयः यथा कैश्चिदसतो रेव भूतभविष्यतोस्सामान्यात्मनाऽद्यापि वृत्तेः प्राकट्याश्रयत्वमुपपदितम् , तथा तहव्यात्मनाऽपि वृत्तेः संयोगोऽप्युपपन्न एव । विशिष्टेनासंयोगश्चेद्विशेषाकारेण न प्राकट्यमिति तुल्यमिति । नवमस्य त्वनभ्युपगम उत्तरम् । नहि गुणादिभिरपि संबन्धस्संयोग एव, किंतु संयोगिनिष्ठता । यथा परेषां संयुक्तसमवायादि । *संबन्धश्च संयोगलक्षणः इत्यादिवचनानां संयोगावश्यंभावे तात्पर्यम् । उक्तं च षडथसंग्रहे श्रीराममित्रैः-* संयोगस्तदर्हेषु विषयत्वाकारः, अनहेषु ततस्तदन्वयिषु इति । अस्यार्थः-संयोगार्हवस्तुनि वर्तमानत्वादिविशिष्टद्रव्यप्रकाशनं संयोगः । संयोगानर्हाणां तु रूपादीनां प्रकाशनं तदन्वयिष्वाश्रयेषु कारणेषु कार्येषु च यथासंभवं संयोग इति । यत्तु * नैरन्तर्यापरपर्यायमत्यन्तसामीप्यमानं च संयोगः । स एव परतन्त्राश्रितः समवायपदपरिभाषाभूमिवैशेषिकाणामपीति नार्थान्तरत्वमुररीकृत्य विकल्पः संभवति इत्यात्मसिद्धावुक्तम् , तदपि पराभ्युपगतसमवायानभ्युपगमात् स्वमते समवायस्य स्वरूपविशेषानतिरेकादतिरिक्तसंबन्धाभावपरम् , न तु गुणगुणिनोः संयोगलक्षणसंबन्धपरम् । गुणगुणिनौ संयुक्ताविति यदि केचित् प्रयुञ्जीरन् , तदानीमौपचारिकोऽयं व्यवहार इति ज्ञापयितुं * नैरन्तर्यापरपर्यायम् इत्युक्तम् । निरन्तरत्वमात्रात् संयुक्तत्वव्यवहारः । तावति वैशेषिका युक्त्याभासैरान्तरत्वं पर्यभाषन्तेत्युक्तं भवति । अन्यथा गुणस्य संयोगवत्त्वे तस्यापि द्रव्यत्वं स्यात् , द्रव्यलक्षणत्वात्तस्य । अवस्थायोगित्वं द्रव्यलक्षणमस्त्विति वचनेऽपि गुणानां ज्ञानसंयोगलक्षणावस्थायोगित्वात् द्रव्यत्वं दुष्परिहरम् । न च द्रव्याद्रव्यविभागो माभूदिति वाच्यम्; भाष्यकारैरेव सत्त्वरजस्तमसामद्रव्यत्वसमर्थनात् । अतो यथोक्त एवार्थः । यद्वा नैरन्तयमात्रमङ्गीकृत्य संयोगमपि केचिन्नेच्छन्ति, तन्मतेनोक्तमिति मन्तव्यम् ।
दशमस्य नायनं तेजो निदर्शनम् । योग्यताऽत्र नियामिकेति चेन्न; अत्रापि तुल्यत्वात् । ज्ञानसंयोगे सति काऽपरा योग्यता? इति चेत्-इन्द्रियसंयोगे सति काऽपरा? इत्यपि सुवचत्वात् । ज्ञानायोग्यत्वे तस्य वस्तुनः केनचिदपि ज्ञानेनाप्रकाश्यत्वं स्यादिति चेन्न; ज्ञापकायोग्यत्वेऽपि तुल्यत्वात् । स्वभावादेव किंचित् ज्ञापकं क्वचिदेव शक्तमिति चेत्; तर्हि तत्रैव ज्ञानमिति । अस्तु तर्हि सामग्रीस्वभावादेव ज्ञानस्य प्रतिविषयं प्रतिनियमः, किं संबन्धेनाधिकेन? इति चेन्न; ईश्वरज्ञानस्य नित्यस्य तदभावात् , निर्विषयत्वेनाज्ञानत्वप्रसङ्गादीश्वराभावप्रसङ्गात् । अनित्येषु ज्ञानेष्वयं नियम इति चेत्; सत्यम् , तथाऽपि संयुक्तसमवायाद्यविशेषेऽपि रसादिपरिहारेण रूपादौ वर्तमानस्य चक्षुरादेः स्वभावनियमे सस्यपि संयुक्तसमवायादिपरिग्रहवत् क्षन्तव्यम् । उक्तं च न्यायकुलिशे-* संयोगस्तु प्रसरणवैभवादिप्रतिपादकशास्त्रबलादाश्रितः इति । योग्यतामात्रेण रूपान्तरादीनामपि ग्रहणप्रसङ्गात् तत्परिहाराय संबन्धविशेषाङ्गीकार इति चेत्; तत्रापि योग्यतामात्रेण सर्वदा प्रकाशः स्यादिति तत्परिहाराय संबन्धपरिग्रहः । सामग्रयेवात्रातिप्रसङ्गं निवारयेदिति चेन्न; तत्रापि तुल्यत्वात् । संबन्धोऽपि तत्र सामग्रीनिविष्ट इति चेत्; तत्रापि तस्य निवेशः किं न स्यात्? तत्संबन्धसामग्रथैव तन्नियमस्याप्युपपत्तेः । तत्रैव संबन्ध इत्यपि हि सामग्रीस्वभावादेव । एकादशे वेगातिशयः, शक्तिविशेषः, ईश्वरसंकल्पो वा प्रतिवक्तारः । इष्टं च विचित्रवेगित्वं नायनतापनादिमहसाम् । तच्च काष्ठाप्राप्तं युगपत् , त्रिचतुरक्षणेन वा विश्वमास्कन्दते इति विश्वसिहि । द्वादशे तु स्वाभाविकं तदीयत्वं तदाश्रितत्वं चेति सञ्चारेऽपि न दोषः । यथा व्यापकात्मवादिनः शरीरेन्द्रियादीनाम् , यथैव ईश्वरमनुमन्यमानस्य तदीशितव्यानाम् , यथा वा लोके दासभृत्यादिद्वन्द्वानाम् , यथा च प्रभाप्रभावदादेः, यथा च वैशेषिकादीनां चलाचलत्वेऽप्ययुतसिद्धयोरवयवावयविनोः । यथा चास्मत्पक्षे शरीरिणः पुरीतदादिसञ्चारेऽपि शरीराणाम् , इति व्यपगतघनदुर्दिनो बोधभानुरौपनिषदानाम् ॥