69 बुद्धेः प्रत्यक्षादिविभागस्य उपाधिमूलत्वनिरूपणम्

बुद्धेः प्रत्यक्षादिविभागस्योपाधिमूलत्वम् ॥ अस्याः स्वतः प्रत्यक्षस्वभावाया एव प्रत्यक्षानुमित्यादि[दृष्टिश्रुतिमत्यादि]विभागोऽपि करणभेदोपाधिकः । सर्वप्रसरणेष्वपि स्वात्मनि प्रत्यक्षप्रकाशात्मिकैव । निरतिशयवेगित्वात् निरतिशयसूक्ष्मत्वाच्च सहसैव विप्रकृष्टसंबन्धः, अप्रतिघातश्च । संयोगलक्षणश्चास्याः संबन्धः । तथोक्तं भाष्यादिषु *संबन्धश्च संयोगलक्षणः, ज्ञानं च द्रव्यमेव इत्यादिकण्ठोक्तया ॥