उक्तं हि सन्मात्रग्राहिप्रत्यक्षभङ्गे भट्टपराशरपादैः * संकोचेऽपि करणसंप्रयोगावधिकस्थैर्याभ्युपगमात् इति । अस्मिन्नपि पक्षे यदा त्विन्द्रियसंयोगाः क्षणिकाः, तदा ज्ञानस्यापि क्षणिकत्वमेष्टव्यमेव । अन्ये तु ज्ञानस्य क्षणिकत्वे ध्यानस्य सन्ततिरूपत्वे च स्मृतिभाष्यादिदर्शनात् द्वितीयः पक्ष इति ॥