67 धारावाहिकविज्ञानस्य एकत्वनिरूपणम्

धारावाहिकविज्ञानस्यैकत्वम् ॥
अत्र धारावाहिकविज्ञानं नीरन्ध्रनिर्यातधुमणिमयूखवदेकरूपं वा, स्नेहदशादिसमवायसन्तन्यमानदीपवत् सन्ततिरूपं वा इति चिन्तनीयम् । तत्र वरदनारायणभट्टारकैः प्रथमः पक्ष उक्तः । तथा हि प्रज्ञापरित्राणे स्मृत्यप्रामाण्यप्रसंगेनोक्तम्
* धारावाहिकधीपङ्क्तिः स्वकालीनार्थभासिका। मेधातिरेकसद्भावात् नैरपेक्ष्यादपि प्रमा ॥ स्तम्भः स्तम्भः स्तम्भ इति धीर्धारावाहिका मता । धारावाहिकविज्ञानमेकं ज्ञानं मतं हि नः ॥ प्रतिबन्धांशमोक्षायैर्नित्यं ज्ञानं हि जायते । चिरमप्रतिबन्धेन चिरं तिष्ठति भासकम् ॥ चिरस्थितार्थधीरेव न धारावाहिका तु सा । नहीश्वरादिविज्ञानमागमादिकमिष्यते ॥
नित्यं हि तदतो नित्यं सर्वेषां ज्ञानमागमात् । इत्यादि ॥