66 बद्धजीवबुद्धेः कर्मानुगुण्येन सङ्कोचविकासनिरूपणम्

बुद्धेः संकोचविकासौ ॥
इयं च प्रतिपुरुषनियता सर्वगोचरस्वभावाऽपि संसारावस्थायां कर्मणा संकुचिता तत्तत्कर्मानुगुणतारतम्यवती इन्द्रियाधीनप्रसरणा । तत एव तत्तत्प्रतिनियतविषया प्रसरणभेदाधीनप्रलयोदयभेदव्यपदेशवती च । तथा चोक्तं भाष्ये * तमिममिन्द्रियद्वारा ज्ञानप्रसरमपेक्ष्योदयास्तमयव्यपदेशः प्रवर्तते इति । एतेन नित्यत्वेन कथमिन्द्रियाद्यपेक्षेति चोद्यं दत्तोत्तरम् ॥