यत्तु वरदविष्णुमित्रैः *सुखदुःखे ज्ञानरूपे एव इत्युक्त्वा अनन्तरमुक्तम् *इच्छाद्वेषप्रयत्ना मानसप्रत्यक्षाः इति; तत् नूनमिच्छादिगुणान्तरसद्भावाभिमानमूलं वा परमतमूलं वा । सुखदुःखयोनिरूपत्वे च इच्छादिषु को विशेषः? मिथस्संश्रयधीबाधमध्यावस्थोपलम्भनैः । न स्यात्परस्पराभावमात्रता सुखदुःखयोः ॥