प्रपञ्चितञ्चैतत् सर्वं तत्त्वरत्नाकरे भट्टपराशरपादैः । यथा
* धियः प्रत्यक्षभावत्वात् परतस्तदसम्भवात् । पारिशेष्यात्स्वतोभानं प्रमाणाञ्च ततस्ततः ॥ प्रतीतेाहरणतः सन्देहपरिवर्जनात् । सत्तायां सिद्धवत्कारात् ज्ञानं भातीति भावितम् ॥
परस्यादर्शनाद्व्याप्तादन्वयिव्यतिरेकितः । अर्थापत्तेश्च युक्तेश्च वचनाच स्वदृङ्मतिः ॥ इति संग्रहः । * व्याप्तादन्वयिव्यतिरेकितः इत्यस्य विवरणदशाययां चैवमुक्तम् , * विप्रतिपन्ना संवित् स्वगतव्यवहार प्रति स्वाधीनकिञ्चित्कारे सजातीयसंबन्धानपेक्षा व्यवहारहेतुत्वात् अथेन्द्रियदीपादिवत् । न च चक्षुषः सजातीयतेजोपेक्षयाडनैकान्त्यम्; तस्येन्द्रियत्वेन, आहङ्कारिकत्वेन वा, आलोकाद्भिन्नजातीयत्वात् । अन्यच्च, ज्ञानसंस्कारः स्वैकार्थसमवायिज्ञानानुभवानपेक्षः संस्कारत्वादन्यसंस्कारवत् , विषयसंस्कारो ज्ञानसंस्कारेण सहोत्पद्यते विषयसंस्कारत्वादिदमहं जानामीतिज्ञानप्रभवसंस्कारवत् । न चोभयविषयज्ञानपूर्वकत्वं प्रयोजकम्; ज्ञानपूर्वत्वेन व्याप्तिसिद्धेयर्थविशेषणत्वात् इत्यस्यानन्तरं * पुनश्च इत्युक्त्वा * संविदनन्याधीनस्वधर्मव्यवहारा इत्यादिभाष्योपात्तमेवानुमानमुक्तम् । अत्र प्रयोगनिष्कर्षः स्वयमेव भाव्यः । * व्यतिरेकि चास्ति लिङ्गम् इत्यभिधायाजडत्वज्ञानत्वादीनि प्रयुज्य समर्थितानि । प्रत्यक्षत्वानुपपत्तिः, व्यवहारविशेषकरत्वानुपपत्तिश्च अर्थापत्ती समर्थिते । ज्ञानं न परप्रकाश्यम् , घटादिवदर्थाप्रकाशकत्वप्रसङ्गादित्यादितकाश्च प्रतिपादिताः । * वचनानि च इत्युक्त्वा * अत्रायं पुरुषः स्वयंज्योतिर्भवति, * आत्मैवास्य ज्योतिः, *स्वेन ज्योतिषाऽऽस्ते, * आत्मसंवेद्य तज्ज्ञानं ब्रह्मसंज्ञितम् इत्यादीनि ज्ञानपदवाच्यजीवस्य स्वयंज्योतिष्ट्रपराणि ज्ञानपदाभिधेयायां संविद्यपि संभवलाघवाभ्यां स्वप्रकाशत्वं संभावयन्तीति, मणितरणिदीपतत्प्रभासाधम्र्येण जीवतज्ज्ञानसमर्थनानि च,
_ * यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ इत्येवंविधानि ज्ञानात्मनोः स्वयम्प्रभावत्वेन सजातीयत्वं ज्ञापयन्ति, न च किञ्चिदनिष्टं प्रसज्यते इत्युक्तम् । वेद्यत्वादिसाधकानि व्यवहार्यत्ववस्तुत्वप्रमेयत्वक्रियात्वाद्यनुमानानि योग्यानुपलम्भसिद्धसाधनासिद्धयादिभिर्दूषितानि । अधीकर्मणः सिद्धिरप्यज्ञातघटादिसद्भाववत् , कदाचिद्धीकर्मत्वस्य ज्ञानेऽपि विद्यमानत्वात्, अङ्गुल्यग्रचोद्यस्य कर्मत्वाद्यनभ्युपगमेन परिहृतत्वाच्च समर्थिता । स्वयंप्रकाशत्वे सहोपलम्भनियमादभेदभयमपि विरुद्धप्रत्यक्षावरुद्धसाध्यत्वविरुद्धत्वाप्रयोजकत्वप्रभृतिभिरनुमानदूषणान्निश्शेषितम् । मानसप्रत्यक्षमङ्गसंग्रहे चैवमुक्तम्
* योग्यानवग्रहात्स्वेन सम्भवादनवस्थितेः । इति बाधकहेतुभ्यः साधनद्वितयस्य च ॥ असिद्धिव्यभिचाराभ्यां वैकल्यात्साध्यसाधने । इत्यसाधनबाधाभ्यां न धीर्मानसगोचरः ।
इति स्वतस्सिद्धिरेव संवित्सिद्धौ च पद्धतिः। इति । अखण्डवाक्यार्थखण्डनानन्तरं च प्राकट्यमानसप्रत्यक्षभङ्गपूर्वकमेता एव युक्तयः पुनः प्रतिपादिताः । तत्र क्षणिकात्मविशेषगुणत्वादि साधनद्वितयम् । तत्र क्षणिकत्वादेरसिद्धिः, प्रायश्चित्तधर्मरनैकान्तिकत्वमप्युक्तम् । एवं पराभिमतजीवनपूर्वकप्रयत्नेनापि द्रष्टव्यम् ॥