63 बुद्धेः प्राकट्यानुमेयत्ववादनिरासः स्वतस्सिद्धत्वनिरूपणञ्च

बुद्धेः प्राकटयानुमेयत्वनिरासः, स्वतस्सिद्धत्वं च ॥ प्राकट्यानुमेयत्ववादिनं प्रत्युच्यते
कल्प्यैव धीश्चेत्कल्प्येत तत्सामग्रयेव लाघवात् । प्रत्यक्षायास्ततोऽन्यत्वक्लप्तौ नैवं प्रसज्यते ॥ ज्ञानयोगः प्रकाशोऽत्र तदसिद्धौ न सिध्यति । कर्मकर्तृक्रियातन्त्रं ज्ञानं प्रत्ययभेदतः ॥ प्रकाशते ज्ञायत इत्येतद्धातुविभेदतः । भिनत्तिपातयत्यादौ यथा करणकर्मणोः ॥ व्यवहारार्थनियतिप्रकाश्यत्वानि बुद्धितः । स्वभावनियमो ह्येष प्राकट्येऽपि न लक्यते ॥
तत्रैवैतत्करणवत्तस्यैवास्तु प्रकाशकम् । प्राकट्यजन्म भूतैष्यदभावज्ञाततासु किम् ॥ आत्मसिद्धौ प्रकाशपदार्थनिर्णयार्थे * कस्तर्हि प्रकाशते पदार्थः? इति प्रश्ने * अनुभवादूरत्वं स्मृतिनिमित्तम् इति न्यायतत्त्वग्रन्थस्मारणपूर्वकं * संविददूरत्वं प्रकाशः इत्यभिधाय, अदूरविकल्पं प्रति चाभिहितम्–
* भवत्वनुभवादूर दूरादन्यद्विरोधि वा । तद्भावश्च प्रकाशत्वं किमत्र बहु जल्प्यते ॥ इति । भाष्यं च * प्रकाशश्च चिदचिदशेषपदार्थसाधारणं व्यवहारानुगुण्यम् इति । तदेवं न बुद्धिः प्रकाशानुमेया । किं तु स्वतस्सिद्धैव ।