62 बुद्धिः

॥ अथ बुद्धिपरिच्छेदः ॥ ५॥
बुद्धिः ॥ अथ मतिनिरूप्यते । सकर्मकावभासत्वम् , सकर्तृकावभासत्वम् , इत्यादि तल्लक्षणम् । न्यायतत्त्वे तु प्रथमाधिकरणे लक्षणान्तराणि बहूनि दूषयित्वा,
* अत्यन्तवेगिताऽत्यन्तसौक्ष्म्यं निर्भरता तथा । स्वसत्ताकालभाव्याप्तिर्ज्ञाने लक्ष्मचतुष्टयम् ॥ इति स्वोक्तलक्षणोपसंहारः कृतः । अत्र यावदपेक्षितं विशेषणमूह्यम् । सा च विषयप्रकाशवेलायां स्वाश्रयस्यैवात्मनः स्वयंप्रभा । अन्यकालान्यपुरुषगता तु स्मृत्यनुमानादिविषयः संसारिणाम् । इतरेषां तु सर्वज्ञतया अन्यकालान्यपुरुषनिष्ठाऽपि स्वकीयेन प्रत्यक्षेण विषयीक्रियते । तथा च भाष्यम्-* यत्त्वनुभूतेः स्वयंप्रकाशत्वमुक्तम्; तद्विषयप्रकाशनवेलायां ज्ञातुरात्मनस्तथैव, नतु सर्वेषां सर्वदा तथैवेति नियमोऽस्ति इति ॥
धियः स्वयंप्रकाशत्वे वेझीत्याधुपलम्भनम् । मानसाध्यक्षभङ्गादिरपि मानमितीष्यताम् ॥ किञ्च- स्वधीविशेषं सर्वज्ञोऽप्यध्यक्षयति वा न वा । आये सिद्धा स्वतस्सिद्धिरन्यत्रासर्ववेदिता ॥
ज्ञानमस्तीति विज्ञानं स्वात्मानं साधयेन्न वा । पूर्वत्र स्वप्रकाशत्वं सर्वासिद्धिरतोऽन्यथा ॥