ईश्वरादेः नित्यानित्यशरीरादिमत्वम् ॥ ननु नित्यस्यैकस्यैव ज्ञानस्य संसारदशायां कर्मणा संकोचविकासभेदात् सुखदुःखेच्छाद्वेषादिरूपावस्थाभेद उपपन्नः, ईश्वरस्य विपाकदशापन्नजीवकर्माख्यसहकारितारतम्यात् विषमत्रिगुणपरिणामहेतवः सन्तु नाम संकल्पाः, अप्राकृतविचित्रदेहादिपरिणामेषु कर्मकालाद्युपाधिविधुराणां संकोचविकासरहितसमस्तवस्तुगोचरधियां मुक्तनित्येश्वराणां कथं कादाचित्केच्छासङ्कल्पतत्कृतानन्दादिज्ञानावस्थाविशेषा घटन्ते? उच्यते -
उल्लेखभेदाः क्रमशः सन्ति सर्वज्ञसंविदि । न चेत्कार्येषु भूतैष्यद्वर्तमानादिधीः कथम् ॥ कर्माद्युपाध्यभावेऽपि मुक्तादीनां प्रवर्तते । इच्छासंकल्पदेहादिरीश्वरेच्छाविशेषतः ॥ ईशेच्छायास्तु वैषम्यं व्यष्टौ कर्मविशेषतः । समष्टौ गुणवैषम्यात्तन्मूलात्कालतोऽपि वा ॥ कालस्य तादृशावस्था क्षणादीनां प्रवाहतः । सोऽप्युपाधिप्रवाहाद्वा यद्वा पूर्वक्षणादितः ॥ उपाधिभिः क्षणाद्यैर्वा पूर्वरुपहितत्वतः । तेषूत्तरेषु हेतुः स्यादिच्छासन्ततिरैश्वरी ॥ अप्राकृतविचित्रार्थसिसृक्षा विषमा तु या। साऽपि प्रवाहानादित्वान्नोपाध्यन्तरमीक्षते ॥ इच्छासंकल्पसृष्टीनां चक्रवद्वा प्रवर्तनात् । स्यादीशबुद्ध्यवस्थानां तत्र बीजाङ्गुरक्रमः॥ आगमै रैश्वरीं शक्तिमतामुपगच्छताम् । ईशस्य तत्तत्सृष्टयादौ सहकार्यन्तरेण किम् ॥
अनित्यमपि विज्ञानमीशस्यास्तीति केचन । तदा त्वप्राकृताक्षादेस्तद्विकासोपयोगिता ॥ यथोक्तं वरदविष्णुमित्रैः-* ईश्वरज्ञानस्य अनित्यस्य सर्वविषयनित्यज्ञानगृहीतग्राहित्वात् इति । अतः सिद्धं नित्यानित्येच्छाभेदात् ईश्वरादेर्नित्यानित्यशरीरादिमत्त्वम् । ईश्वरशरीरे च सूक्ष्मव्यूहविभवादिभेदाः श्रीमत्पञ्चरात्रादिभिः प्रपञ्चिता अवगन्तव्याः । संग्रहस्तु–सूक्ष्मं केवलषाङ्गुण्यविग्रहं वासुदेवाख्यं परं ब्रह्म पूर्वोक्तम् । परस्मिन्नेव शान्तोदितनित्योदितविभागोऽपि विभाव्यः । वासुदेवसंकर्षणप्रद्युम्नानिरुद्धरूपो व्यूहः । उत्तरोत्तरः पूर्वपूर्वकारणकः । तत्र वासुदेवे ज्ञानादिगुणाः षडप्याविर्भूताः । संकर्षणादिषु त्रिषु शास्त्रप्रवर्तनसंहाराद्यौपयिकगुणद्वन्द्वत्रयोन्मेषेण चतुष्कमनाविर्भूतम् । सर्वे ते सर्वत्र सन्त्येव । एषां च प्रत्येकमवान्तरावतारा अनन्ताः । पद्मनाभमत्स्यादिदशकादयो विभवभेदाः । स्वयंव्यक्तदैवार्षादयस्तु अर्चावतारभेदाः । देवादिष्वपि विशिष्टप्रतिष्ठानन्तरं प्रसादोन्मुखेश्वरसंकल्पाधीनमप्राकृतत्वमनुसन्धेयम् । प्राकृताप्राकृतसंसर्गोऽपि नानुपपन्नः । अन्यथा प्राकृतलोकेषु भगवदवताराः, परमपदेऽप्यचिरादिमार्गेण सूक्ष्मशरीरस्य, वैदिकपुत्रादेर्वा गमनं कथं घटेत? हृत्पद्मकर्णिकामध्यगतस्यान्तर्यामिणः परस्य विशेषतः सूक्ष्मान्तर्याम्यवतारः । विचित्रा च भगवत इव विग्रहस्यापि व्याप्त्यादिशक्तिः । तयैव धर्मिग्राहकसिद्धया विपरीततर्काणां प्रतिक्षेपः । श्रीमद्गीतकादशाध्याय च विग्रहस्य व्यापकत्वकारणत्वादिकं व्यक्तमेव भाष्यकारैः प्रतिपादितम्
* इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश ! यच्चान्य द्दष्टुमिच्छसि ॥ इति * इह-ममैकस्मिन् देहे तत्राप्येकस्थम्-एकदेशस्थम् , सचराचरं कृत्स्नं जगत्पश्य । यच्चान्यद्दष्टुमिच्छसि, तदप्येकदेहैकदेश एव पश्य इत्युक्तम् । तथा
* तत्रैकस्थं जगत्कृलं प्रविभक्तमनेकधा। अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ इति *……..देवदेवस्य दिव्ये शरीरेऽनेकधा प्रविभक्तं ब्रह्मादिविविधविचित्रदेवतियङ्मनुष्यस्थावरादिभोक्तृवर्गपृथिव्यन्तरिक्षस्वर्गपातालातलवितलसुतलादिभोगस्थानभोग्यभोगोपकरणभेदभिन्न प्रकृतिपुरुषात्मकं कृत्यं जगत् इत्युक्तम् । तथा
* सुदुदर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ इति, * ममेदं सर्वस्य प्रशासनेऽवस्थितं सर्वाश्रयं सर्वकारणभूतं रूपं यद्दष्टवानसि, तत् सुदुर्दर्शन केनापि द्रष्टुं शक्यम् इत्याद्यक्तम् । अस्त्रभूषणाध्यायोक्तश्च सर्वाश्रयत्वप्रकारोऽनुसन्धेयः । अन्यत्र चोक्तं भगवता पराशरेण
* समस्ताः शक्तयश्चैता नृप ! यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेमहत् ॥
समस्तशक्तिरूपाणि तत्करोति जनेश्वर ! । देवातिर्यड्मनुष्याख्याचेष्टावन्ति स्वलीलया ॥ इत्यादि । एषु सर्वेषु भगवतो विग्रहेषु सांसारिकफलप्रदान एव मात्रया तारतम्यम् । निःश्रेयस तु व्यापकानुसन्धायिनां सर्वत्र हस्तापचेयम् । यच्च * विभवार्चनाद्व्यूहं प्राप्य इत्यादि, तत् व्यापकानुसन्धानविधुराधिकारिविशेषापेक्षयेति मन्तव्यमिति ॥
संविद्या निरवद्यनन्दथुमयी निष्कृष्ट सत्त्वाकृतिः स्वाच्छन्द्यात्कमलापतेर्भगवतो भोगाय लोकायते । चिन्तादूरतरा चिरन्तनतमोनिश्शेषमोक्षस्थली चित्ते सन्निदधातु मे शुभतरस्वैरावतारात्मिका ॥
॥ इति श्रीन्यायसिद्धाञ्जने नित्यविभूतिपरिच्छेदश्चतुर्थः ॥ ४॥