अथ नित्यविभूतिपरिच्छेदः॥
नित्यविभूतिलक्षणम् ॥ अथास्य नित्यविभूतिरुच्यते। त्रिगुणद्रव्यव्यतिरिक्तत्वे सति सत्त्ववत्त्वम् , स्वयंप्रकाशत्वे सति सत्त्ववत्त्वम् , तमोरहितत्वे सति सत्त्ववत्त्वम् , निश्शेषाविद्यानिवृत्तिदेशविजातीयान्यत्वम् , इत्यादि तल्लक्षणम् । * आदित्यवर्णं तमसः परस्तात् , * तेह नाकम् * क्षयन्तमस्य रजसः पराके * यो अस्याध्यक्षः परमे व्योमन् , * तदक्षरे परमे व्योमन् * सहस्रस्थूणे विमिते दृढ उग्रे इत्यादिभिस्तत्सिद्धिः । एवं च सति * तद्विष्णोः परमं पदँ सदा पश्यन्ति सूरयः इत्यत्रापि व्यतिरेकनिर्देशबलात् स्वरूपा दे सिद्धे पदशब्दस्वारस्यात् , सदादृश्यत्वबलाच्च सदापश्यदनेकद्रष्टविशिष्टस्थानविशेषसिद्धिः । अगत्या च विशिष्टविधिः * यदानेयोऽष्टाकपालः इतिवत् । प्रपञ्चितश्चायं स्थानविशेषो मोक्षधर्म * एते वै निरयास्तात ! स्थानस्य परमात्मनः इत्यादिभिः । सा च विभूतिः केनचित्प्रदेशेनानन्ता, केनचित्त्ववच्छिन्ना। आनन्त्यतमःपरत्वयोः श्रुतयोरवर्जनीयत्वात् । आनन्त्यमात्रसाम्येऽप्यनन्तत्रिगुणादपीयमधिकतरा; न्यूनाधिकभाववचनात् , अनन्तत्वेऽपि]??न्तेष्वेव मिथस्तारतम्यस्य सिद्धत्वात् । देशेऽपि निदर्शयामः । आदित्यादूर्ध्वमपि गगनदेशोऽनन्तः, भूमण्डलादनन्ततरः, पातालादनन्ततम इति । पादत्रिपादव्यपदेशश्च तदविषयोऽपि तद्देशतारतम्यस्यानुग्राहको भवति । अयं च विभागो न समचतुर्भागाभिप्रायः; * बुद्ध्यर्थः पादवत् इत्युक्तत्वात् । अचेतना चेयम्; जीवेश्वरकोटिविलक्षणत्वात् । स्वयंप्रकाशा च । * तत्रानन्दमया लोका भोगाश्चानन्दलक्षणाः, * आनन्दं नाम तं लोकं परमानन्दलक्षणम् , * तयो? परमव्योम निर्द्वन्द्वं सुखमुत्तमम् , * षाड्गुण्यप्रसरो नित्यस्वाच्छन्द्यादेशतां गतः इत्यादिसामर्थ्यात् ।
तथा *किमात्मिकैषा भगवतो व्यक्तिः* इति प्रश्ने
“यद्-आत्मको भगवान्” इति च सामान्यत उत्तरे कृते,
पुनः *किमात्मको भगवान्* इति प्रश्ने
ज्ञानात्मकः इत्याद्य्-उत्तरम् उक्तम् ।
अतो दिव्य-मङ्गल-विग्रहस्य ज्ञानात्मकत्वात्
तद्-द्रव्यात्मिकायाः सर्वस्या नित्य-विभूतेर् ज्ञानात्मकत्वम् उचितम् ।
ज्ञानात्मकत्वं चात्र स्वयंप्रकाशत्वम् एव ।
ज्ञानत्वे ऽप्य्
आत्मवद् अस्यानिर्विषयत्वाकर्तृत्वे युक्ते ।
परस्मै भासमानत्वाच् च धर्म-भूत-ज्ञानवत् पराक्त्वम् उपपन्नम् ।
सुषुप्त्य्-आदि-काले धर्म-भूत-ज्ञानवद्
बन्ध-काले सा न प्रकाशते ।
तदा तु
तद्वद् एव ज्ञान-विषयतयैव तत्-सिद्धिः ।
बन्ध-रहितानां मति-वैभवे सत्य् अपि
सा तन्-निरपेक्षा; आत्म-स्वरूपवत् ।
ज्ञान-विषयत्वेऽपि स्वयं-प्रकाशत्वम् अप्य् अन्यत्राप्य् अभ्युपगतम् ।
विश्वास-टिप्पनी
ज्ञान-विषयत्वेऽपि स्वयं-प्रकाशत्वम् अप्य् अन्यत्राप्य् अभ्युपगतम् - ज्ञानमात्रे ।
यथा “अहम्” इत्य् अव्यवहितं ज्ञानं धर्मिभूत-ज्ञानम् एव।
किन्तु तज्-ज्ञानं विषयी-कृत्य धर्म-भूत-ज्ञानं प्रवर्तेत।
एवं “घटः” इत्य् अव्यवहितं ज्ञानं धर्म-भूत-ज्ञान-विशेषम् भवति,
तथापि तज् ज्ञानं धर्म-भूत-ज्ञानान्तर-विषयः स्यात्।
“घटः” इति ज्ञानं स्पर्शतो दृष्टिचश् चापि धर्म-भूत-ज्ञान-विशेषाभ्यां सत्य् अपि,
तयोर् ज्ञानयोः प्रकार-भेदो वर्तते।
शुद्ध-सत्त्वे स्वतः, धर्म-भूत-ज्ञान-द्वारा चाव्यवहितरीत्या गृह्यमाणे सति तु,
तादृशं तयोर् ज्ञानयोः प्रकार-भेदं कथयितुं न शक्यम् -
केवलं संज्ञा-भेद एव भवति।
ततो ऽन्यत्रावर्तमानो ऽव्यवहित-ज्ञान-प्रकार-भेदाभावः,
अत्र शुद्ध-सत्त्वय् एव कुतः कल्पनीय इति युक्ति-विरोधो जायते।
तथा किञ्चिद् अनुमातव्यं चेद् अप्य् अवैयर्थ्यं यथा स्यात्, तथा कल्पनीयम्।
युक्ति-प्रमाणयोर् अविरोधो मार्गान्तरेण साधयितुं शक्यः।
वरं शुद्ध-सत्त्वं सर्वेषाम् अबद्धानां धर्मभूतज्ञानस्याङ्गं मन्यताम् -
अ-बद्धात्मनो धर्म-भूत-ज्ञानम् = लीलाविभूतिविषयकं धर्मभूतज्ञानम् + शुद्ध-सत्त्वम् + व्यक्ति-गतानुमानादि ।
एके तु निरतिशय-दीप्ति-योगात्
ज्ञानावारकत्वाभावादेश् च
स्वयं-प्रकाशत्व-ज्ञानत्वादि-व्यपदेशः;
अत्यन्तानुकूल-रूप-रस-गन्धादि-योगाच् चानन्द-सुखादि-व्यपदेश
इत्य् आहुः ॥
इयं च पञ्चोपनिषत्-प्रतिपाद्य-पञ्च-भूतेन्द्रियमयी
नित्य-मुक्तेश्वराणाम् इच्छानुरूप-शरीरेन्द्रिय-प्राण-विषय-रूपेणावतिष्ठते ।
त्रिगुणवदियमपि चतुर्विंशतितत्त्वात्मिकेति केचित् । तथाऽपि न तत्त्वानां प्रकृतिविकृतिभावः । दिव्यमङ्गलविग्रहादेनित्यत्वश्रवणात् । अप्राकृतानामपि महदानीनां सद्भाव आकाशादिवत् । न हि आकाशाद्युपात्तास्तत्र वाय्वादयः । तत्र च शरीरादीनां संस्थानादीनि प्रायशः प्राकृततुल्यानि । शरीराणां शुभाश्रयादीनां पाण्यादिमत्त्वश्रवणात् तत्रेन्द्रियसद्भावसिद्धिः । चक्षुरादिशब्दानां च प्रयुक्तानां गोलकादावमुख्यत्वात् । * इन्द्रियच्छिद्रविधुरा द्योतमानाश्च सर्वशः इत्यादिवचनमुत्सर्गापवादनयेन कर्मकृतेन्द्रियप्रतिक्षेपपरम्; * अशरीरं वाव सन्तम् इत्यादिषु कर्मकृतशरीरादिप्रतिषेधवत् । * अभावं बादरिः इत्यधिकरणे * किं मुक्तस्य देहेन्द्रियाणि सन्ति इति चिन्तितत्वाद्भतेन्द्रियरूपषोडशतत्फलसद्भावी भाष्यकारैरेव सूचितः । भट्टपराशरपादैश्च ईश्वरादीनां मनस्सद्भावो दर्शितः । यथा * यद्यप्येवं तर्कः स्वातन्त्र्येण स्वान्तसमर्थनासमर्थः, तथाऽप्यागमानुग्रहेण प्रभवति । सन्ति चागमाः * मनसैतान् कामान् पश्यन् रमते, * मनोऽस्य दिव्यं चक्षुः, * सोऽन्यं कामं मनसा ध्यायीत, * मनसैव जगत् सृष्टम् , * एतस्माज्जायते प्राणो मनः सर्वन्द्रियाणि च इत्येवमादयः परावरप्रकरणेषु इति स्वयमुक्तत्वात् । * बुद्धिरेवेदं मन इति मतान्तरमाचार्याणाम्; बुद्धिमान् मनस्वी इत्यविशेषनिर्देशात् , क्षुभितं मे मनः, प्रशस्तं मे मन इति तदवस्थापरोक्ष्याच्च इति मतान्तरमुक्तम् । विषयाश्चात्र भूषणायुधासनपरिवारायतनोद्यानवापिकाक्रीडापर्वतादयोऽतिविचित्रा नित्याः । केचित्तु कृतका अनित्याश्च । सन्ति हि तत्रापि तरुषु पल्लवकुसुमफलादयः परिणामाः, नदीषु फेनतरङ्गबुहृदादयः, विग्रहे च व्यूहविभवादयः । कालकृतकर्माधीनपरिणाममात्रं हि तेषु निषेध्यम् , न तु भगवत्सङ्कल्पमात्रकृतमपि । तदेवं शरीराण्यपि कानिचित् नित्यानामीश्वरस्य च नित्येच्छापरिग्रहात् नित्यानि । कानिचिदनित्येच्छापरिग्रहादनित्यानि । मुक्तानां तु कृतकान्येवानित्यान्यपि । ते हि कदाचिदशरीराः कदाचिच्च सशरीरा इति भाष्यादिषु प्रदर्शितम् । इन्द्रियाणि तु तत्रत्यानि सर्वाण्यपि नित्यानि, तत्रत्यव्योमादिवदेवोपादाननिरपेक्षत्वात् । तत्र कानिचित् नित्यैः, ईश्वरेण, च नित्यपरिगृहीतानि, कानिचित् कदाचित् परिगृहीतानि । मुक्तैस्तु तत्परिग्रहः शरीरवत् कादाचित्क एव । नित्यमुक्तानां शरीरादिपरिग्रहो भगवदभिमततत्कैकयरूपभोगाय । भगवतोऽपि स्वभोगाय, स्वशेषभूतनित्यमुक्तानन्दनाय, मुमुक्षूपास्यत्वसिद्धये च । स च भगवतः स्वसंकल्पादेव । मुक्तनित्यानां तु कदाचित्परमपुरुषमात्रसंकल्पात् , कदाचित्परमपुरुषसंकल्पानुविधायिस्वसङ्कल्पाच्च । तथा च सूत्रम् * तन्वभावे सन्ध्यवदुपपत्तेः, * भावे जानद्वत् इति ॥