जगच्छेषत्वम् ॥ अनेन च श्रीराममिश्रवचसा द्वन्द्वं प्रति जगतः शेषतैकरसत्वमुपपादितम् । श्रुतिश्च* अकारेणोच्यते विष्णुः सर्वलोकेश्वरो हरिः । उद्धता विष्णुना लक्ष्मीरुकारेणोच्यते तथा ॥
मकारस्तु तयोर्दास इति प्रणवलक्षणम् ॥ इति । मन्त्रान्तरेष्विव प्रणवेऽपि बहवोऽर्था बहुषु प्रदेशेषु प्रतिपाद्यन्त एव । न चार्थविरोधः, येनान्यपरता स्यात् । * अस्येशाना जगतो विष्णुपत्नी, * ईश्वरीं सर्वभूतानाम् इत्यादिका च । अदित्यादिशब्दसामानाधिकरण्यात् आद्या श्रुतिर्भूविषयेति केचित्; दिग्विषयेति तु कुदृष्टिः, श्रुतिलिङ्गादिविरोधात् । आह च भगवान् पराशरः * त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् , * यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम, * नानयोर्विद्यते परम् इत्यादि । तथा च भगवच्छास्त्रवचनम् * एकतत्त्वमिवोदितौ,
* लक्ष्म्याः समस्तश्चिदचित्प्रपञ्चो व्याप्यस्तदीशस्य तु साऽपि सर्वम् ।
तथाऽपि साधारणमीशितृत्वं श्रीश्रीशयोौं च सदैकशेषी ॥ इत्यादि । अहिर्बुध्न्यसहितालक्ष्मीतन्त्रादिषु च विस्तरेणायमर्थोऽवधार्यः । एतेन भूम्यादेरपि तदंशत्ववचनं निव्यूढम् । अनुप्रवेशादेव हि अनन्तविष्वक्सेनादेरपि सङ्कर्षणाद्यात्मकत्वमुच्यते । यथाविनियोगमुपासनावान्तरभेदात् ब्रह्मणः पत्नीपरिजनादिसाहित्यराहित्यविकल्पः, न पुनर्धान्तत्वशुद्धत्वकार्यकारणावस्थादिविषयत्वात्; प्रागेव तत्र दूषणाभिधानात् । व्यूहविभवादिषु हेतुकार्यभावं सर्वं विग्रहविषयं वक्ष्यामः । तत्तद्व्यहाद्यनुरूपाश्च लक्ष्म्यादिव्यूहादयः शास्त्रसिद्धाः । व्यूहादिषु मिथोऽङ्गाङ्गिभावादिकं स्वसंकल्पमात्रायत्तम् , ईश्वरस्य सर्वत्रैकत्वात् । यत्तु यन्त्रविशेषादिषु लक्ष्मीसुदर्शनादीन्प्रति वासुदेवादेरङ्गत्वं वचित्वचित् प्रतिपाद्यते, तत्र यथावस्थितब्रह्मात्मकत्वानुसन्धाने स्वात्मानं प्रत्येव स्वस्यैच्छमङ्गत्वमिति न कश्चिद्विरोधः । ब्रह्मदृष्टयाऽनुसन्धाने तु तत्तत्फलविशेषार्थं तदङ्गकत्वेन प्राधान्यदृष्टिरिति त्रय्यन्तोदितदृष्टिविध्यन्तरेष्विव न तत्त्वव्यवस्थाभङ्गः । न चैवमागमान्तरप्रतिपाद्यतत्त्वेष्वपि प्रसङ्गः; तेषामागमानामप्रामाण्यस्य वक्ष्यमाणत्वात् । पञ्चरात्रप्रामाण्यस्य आगमप्रामाण्ये भाष्ये च श्रीपञ्चरात्राधिकरणे प्रपञ्चितत्वात् , अस्माभिश्च न्यायपरिशुद्धावुक्तत्वात् । न च यन्त्रादय एव सामान्यतो निर्मूला इति वाच्यम्; तापनीयोपनिषदादिषु तदर्शनात् , प्रत्यक्षतः फलोपलम्भाच्च । अतस्तत्त्ववैपरीत्यम् , तदुक्तिमूलशास्त्राप्रामाण्यं वा न शङ्कनीयम् । अतः सिद्धमशेषचिदचित्प्रकारं ब्रह्म एकः श्रीमन्नारायण इति ॥
स्फारास्तीर्णभुजङ्गपुङ्गववपुःपर्यङ्कवर्यं गतौ सर्गस्थित्यवसानकेलिरसिकौ तौ दम्पती नः पती । नाभीपङ्कजशायिनः श्रुतिसुखैरन्योन्यबद्धस्मितौ डिम्भस्याम्बुजसंभवस्य वचनैरोन्तत्सदित्यादिभिः ॥
॥ इति न्यायसिद्धाञ्जने ईश्वरपरिच्छेदः तृतीयः ॥