ईश्वरस्य अभिन्ननिमित्तोपादानत्वसामञ्जस्यम् ॥ निमित्तोपादानैक्यवाक्यं यूपादित्यैक्यवाक्यवदिति चेत्; कथम्? लक्षणविरोधादिति चेत्; मैवम् । नहि उपादानासमवायिव्यतिरिक्तं निमित्तमिति निमित्तलक्षणम् , नापि निमित्तासमवायिव्यतिरिक्तकारणमुपादानमित्युपादानलक्षणम् , येनात्र विरोधः स्यात् । किं तर्हि? * उपादानकारणत्वं च परिणामास्पदत्वमेव इति वेदार्थसंग्रहानुसारादवस्थाश्रय उपादानम् । आगन्तुकोऽपृथक्सिद्धो धर्मोऽवस्था । विशेषतस्तूत्तरोत्तरावस्थाविशिष्टस्वरूपापेक्षया तदनुगुणनियतपूर्वभाव्यवस्थाविशिष्टं तदेव वस्तूपादानम् , यथा घटत्वावस्थाविशिष्टमृद्दव्यापेक्षया पिण्डत्वावस्थाविशिष्टं तदेव द्रव्यम् । तदनुगुणशब्देन प्रतिसर्गावस्थाव्यवच्छेदः । परिणामोन्मुख्यातिरिक्तेन आकारेणापेक्षितं कारणं निमित्तम् । असमवायीत्यवान्तरविभागस्तु नास्मदीयैरभ्युपगतः पारिभाषिकत्वात् । अन्यथा निमित्तकारणप्रत्यासन्न कारणमनिमित्तमित्यादिविभागान्तरस्यापि परिभाषितुं शक्यत्वात् । पटाद्यसमवायितया तन्तुसंयोगादयस्तु असिद्धा एव; अवयविभङ्गात् , तावत एव तत्त्वात् । संयोगादिकारणतया नोदनादयस्तु सिद्धा अपि निमित्तकोटेन व्यतिरिच्यन्ते । ततश्च लक्षणद्वयमपि ईश्वरे सिद्धम्; अविभक्तनामरूपचिदचिच्छरीरकस्य विभक्तनामरूपचिदचिच्छरीरकत्वापेक्षयोपादानत्वसिद्धेः, अविभक्तचिदचिच्छरीरकत्वातिरिक्तेन कुलालादिसाधारणसङ्कल्पविशेषवत्त्वाद्याकारेण निमित्तत्वसिद्धेश्च । ईश्वरस्यैव क्वचिद्विषये कर्तृत्वमुपादानत्वं च परैरपि स्वीकार्यम् । सन्ति हि संयोगादयो घटादिभिरीश्वरस्य । ततश्च ईश्वरस्तेषां समवायित्वात् सर्वकार्यकर्तृत्वाच्च उपादानम् , निमित्तं च । त [तत्कर्तृत्वानभ्युपगमे कार्यत्वात्सकर्तृकमित्यनुमानं दशमदशापन्नम् । एवमनीश्वरेष्वपि बुद्धिपूर्वस्वज्ञानसुखाद्युत्पादने निमित्तोपादानत्वसमुच्चयः सिद्धः । ततः सिद्धं सूक्ष्मचिदचिद्वस्तुशरीरकं ब्रह्मैव स्थूलचिदचिद्वस्तुशरीरतया परिणमतीति वेदान्ताः प्रतिपादयन्तीति । तेन च तव्यतिरिक्तस्य निखिलस्य आधाराधेयभावेश्वरेशितव्यत्वशेषशेषित्वशरीरशरीरिभावकार्यकारणभावादयो यथाग्रहणं संबन्धाः ॥