56 ईश्वरानुमाननिरासप्रयोजननिरूपणम्

ईश्वरानुमाननिरासप्रयोजनम् ॥ नन्वस्माकमीश्वरानुमाननिरासेन किं प्रयोजनम्? न च प्रयोजनाभावमात्रम् , अनुमानत एवेश्वरं प्रतिपद्य तं भजमानान्प्रति नास्तिक्यशङ्काऽप्यापादिता स्यादिति महत्तेषामस्माकं च पापमिति । अहो ! महाकारुणिकोऽसि । तादृशेभ्य एतन्नोपदिश्यताम् । प्रयोजनं च शृणु । प्रथमं तावत् यथावस्थिततत्त्वावबोधः श्रोत्रेण गन्धग्रहणनिरासवत् , अनुमानस्याभासतां पश्यतस्तीब्रबुद्धेरीश्वराविश्वासपरिहारश्च । ततश्च मन्दानां मतेस्तीव्रबुद्धिना प्रक्षोभो न स्यात् । एवमपि क्रियतां कारुण्यम्; अप्राप्तप्रापकस्य आगमस्यानुवाद[ता]प्रसङ्गोऽपि परिहृतः स्यात् । अनुवादत्वेऽपि ईश्वरः सिध्यत्येवेति न कश्चिद्दोष इति चेन्न; निमित्तोपादानभूतेश्वरासिद्धेः । निमित्ततयाऽनुमानसिद्धमीश्वरमनूद्य उपादानत्वादि विधीयताम् , प्रत्यक्षसिद्धं पृथिव्यादिकमनूयेश्वरशेषत्वशरीरत्वादिविधानवदिति चेत् । तथैवानूद्य उपादानत्वनिषेधकानुमानोदये धर्मिग्राहकबाधस्य दुर्वचत्वप्रसङ्गात् । विशिष्टतया त्यागमेनैव सिद्धौ तस्य सुवचत्वात् । पृथिव्यादेरीश्वरशेषत्वादिनिषेधानुमानवत् तदपीष्यतामिति चेन्न; तस्य निषेध्यग्राहकसिद्धयसिद्धिभ्यां व्याघातस्य सुवचत्वात् । अत्र ईश्वरो न पृथिव्याधुपादानम्; चेतनत्वात् कर्तृत्वाद्वा कुलालवदित्यादिप्रयोगे कथञ्चिदपि स दुर्वचः। तदा त्वागमस्यान्यपरत्वोपपत्तौ ईश्वरस्यानुपादानत्वमेव स्यादिति * जन्माद्यस्य यतः इति निखिलजगदेककारणत्वसंवित् विलीयेतेति भयादनन्तरमेव सूत्रकारैः * शास्त्रयोनित्वात् इति प्रमाणान्तरगोचरत्वं निरस्तम् । ननु तर्हि * रचनानुपपत्तेश्च इत्यादिसूत्रं तद्भाष्यादिकं च कथं संघटेत? न्यायतचे च प्रमापादे चेतनस्यैव कर्तृत्वप्रतिपादनप्रकरणे * ननु वायु रेणूनां सङ्घातं करोति इत्यादिना परिचोद्य दत्तमुत्तरम् * उच्यते । कर्तृकरणकर्माणीति त्रीणि कारणानि क्रियाविशिष्टानि । तेषामन्यतमाभावे क्रिया न युज्येत इत्यादि, अत्रापि ईश्वमानुमानानुमतिर्दृष्टा । अतः * शास्त्रयोनित्वात् इत्यस्यान्यथाऽर्थो वाच्य इति चेन्न; * रचनानुपपत्तेः इत्यादेरन्यभावत्वात् । तत्र हि चेतनानधिष्ठितप्रकृत्याधुपादानत्वमात्रप्रतिपादकान् प्रति विशेषविरोधादिप्रदर्शने तात्पर्यम् । स्वपक्षे तु तेषां संभावनातर्कत्वमेव, तदनुगृहीतस्त्वागम एव प्रमाणम् । अत एव न्यायतत्त्ववचनमपि नियूंढम् । तदेवमुपादानमनूद्य निमित्तत्वनिषेधकान् निमित्तमनूद्योपादानत्वनिषेधकांश्च प्रति धर्मिग्राहकबाधं वक्तुं केवलजगदुपादाननिमित्तानुमानयोर्दूषणमिति मन्तव्यम् । आगमेश्वरादिपक्षीकारे त्वाश्रयासिद्धिरिति संग्रहः ॥