55 ईश्वरानुमाननिरासः

क्षित्यादिकं सकर्तृकं कार्यत्वात् घटवदिति चेन्न; यथादृष्टोपसंहारे बाधात् । अन्यथा ज्ञानेच्छयोरपि त्यागप्रसङ्गात् । नित्यज्ञानस्य शरीरादिनेव नित्यप्रयत्नस्यापि ज्ञानादिना निरपेक्षत्ववचनोपपत्तेः । स्वतो विषयप्रावण्ये ज्ञानत्वप्रसङ्ग इति चेन्न; जीवनपूर्वकप्रयत्नवदुपपत्तेः । अदृष्टात् तत्र नियम इति चेत्; अत्रापि तथास्तु । त्वयाऽप्येतदेष्टव्यम् । अन्यथा नित्यज्ञानचिकीर्षाप्रयत्नानां सर्वदा सर्वगोचरत्वेन विषयनियमाभावे युगपत्सर्वकार्योत्पत्तौ युगपदनायाससर्वमोक्षक्षणभङ्गानन्तरक्षणकार्याभावादिप्रसङ्गात् । सहकारिक्रमात् कार्यक्रम इत्यविलक्षवचनम्; सहकारिणामपि कार्यत्वात् युगपदेव निवृत्तिप्रसङ्गात् । प्रयत्नस्य समस्तवस्तुगोचरज्ञानसमानविषयत्वे नित्यवस्तूनामपि तत्प्रयत्नविषयत्वप्रसङ्गः, ततश्च तेषामपि सृष्टिसंहारादिप्रसङ्गः, अशक्यविषयप्रयत्नत्वादीश्वरस्यैवानीश्वरत्वं वा । अस्तु तर्हि अहटैकनियतप्रयत्नमात्रवानीश्वर इति चेत्; जीवस्यैवानित्यप्रयत्नस्यैव तथाविधनियमोपपत्तेः । अङ्कुरादिगोचरप्रयत्नो न केनापि ह्युपलभ्यते इति चेन्न; जीवनपूर्वकप्रयत्नेऽपि समत्वात् । कार्यादेव हि तत्कल्पनम् । तदत्रापि समम् । अदृष्टस्य च सर्वकार्यनिमित्तस्य नियामकत्वे किमदृष्टप्रयत्नकल्पनप्रयत्नेन? अत्रैवं संग्रहः
सर्वगत्वादनियमो नित्यगत्वादुपद्रवः । अदृष्टान्नियमे नित्ययत्नोऽत्राजागलस्तनः ॥
स्वादृष्टपरतन्त्रः स्यादवरात्मा कचित्कचित् । परादृष्टपराधीनः सर्वत्रैव भवेत्परः ॥ प्रयत्नस्य च ज्ञानादतिरेकं पराभिमतमनुरुध्यैतदुक्तमिति मन्तव्यम् । किंच- सिद्ध्यसिद्धयोर्विरोधो नेत्येवं प्रलपतस्तव । विरोधसिद्ध्यसिद्धयोश्च तन्निषेधो निषिध्यते ॥
त्वसिद्धान्तत्वदुक्तिभ्यां हेत्वाभासेन वा पुनः । ज्ञातो व्याप्तिविरोधेन विशेषः प्रतिषिध्यते ॥ तृणादिममरीभावहेतुत्वादग्निमद्धिमम् । इति कृत्वा पक्षबलात् शीताग्मिन हि कल्प्यते ॥ व्यापकत्वेन दृष्टस्य पक्षसंबन्धमात्रतः । अधिकांशग्रहे हेतुः पक्षधर्मोऽपि न क्षमः ॥ सिद्धे तु पक्षसंबन्धे पारिशेष्यादिना पुनः । अधिकांशग्रहश्चेन्न पारिशेष्यानिरूपणात् ॥ दृष्टजातीयनिश्शेषभङ्गे साध्यं न सिध्यति । अभङ्गेनाधिकं सिध्येत् न च सामान्यतःस्थितिः ॥
परिशेषानुमानस्याप्यन्वयित्वे समा गतिः । केवलव्यतिरेकी तु परस्तान्निरसिष्यते ॥ किंच सकर्तृकमित्यत्र उपादानादिसमस्तकारणविषयज्ञानादिमान् कर्तृतया विवक्षितः? कतिपयविषयज्ञानादिमान् वा? सामान्यतो वा? पूर्वत्र व्याप्त्यसिद्धिः । न हि कुलालादयो घटादिहेतुभूतमदृष्टेश्वरादिकं जानन्ति । उत्तरयोः पक्षयोरीश्वरासिद्धिः । यागाद्यपकरणमृदाधुपादानवेदिभिर्जी वैरेव सिद्धसाधनात् । एतेन व्यणुकादिकर्तृत्वमपि जीवस्यैवादृष्टद्वारा घटत इति सिद्धम् । शरीराजन्यत्वेन च कार्यत्वहेतोर्बाधः । सोपाधिकत्वं वा दुष्परिहरम् , न च व्यर्थं विशेपणम्; असिद्धिपरिहारेण तस्य सार्थकत्वात् । न च हेतुविशेषणं सर्वमनैकान्त्यपरिहारायेति मन्त्रपाठोऽयम् । व्यर्थविशेषणं तर्हि सर्वत्रादूषण स्यादिति चेन्न; यत्किञ्चिद्दोषपरिहारानुपयुक्तत्वस्य वैययेऽनुरूपत्वात् । तथा च प्रकृतानुपयोगिनस्तस्यार्थान्तरात्यनिग्रहस्था[नत्वं]नं वाऽस्तु । न च विशिष्टस्य व्याप्त्यभावादेकामसिद्धिं परिहरतो द्वितीयापत्तिरिति वाच्यम्; तस्य तदभावासिद्धेः । यत्र शरीराजन्यत्वं तत्र सर्वत्राजन्यत्वमात्रमप्यस्तीति तस्य व्याप्तौ अस्यापि व्याप्तिर्दुर्निवारैव । अन्यथा कलमाङ्कुरात् कलमबीजानुमानमुच्छिद्येत । बीजव्यतिरेकमात्रेण कलमाङ्करस्यापि व्यतिरेकसिद्धेय॑तिरेकव्याप्तौ व्यर्थविशेषणत्वात् । बीजमन्तरेणापि केचिदङ्करा जायन्त इति चेत्; कलमबीजमपि नानुमीयेत, तदन्तरेणापि तदुपपत्तेः । एवं मैत्रीतनयस्य श्यामत्वे शाकाद्याहारपरिणामश्च नोपाधिः स्यात्; आहारपरिणामव्यतिरेकमात्रेण श्यामत्वव्यतिरेकात् शाकादीतिविशेषणवैयर्थ्यात् । तन्निवृत्तावपि तमालेन्द्रनीलश्यामत्वं दृश्यत इति चेन्न; विशिष्टस्यापि तत्र व्यतिरेकात् । न च शरीरश्यामत्वस्यैव तत् प्रयोजकम्; स्थावरायोनिजश्यामशरीरेषु शाकाद्याहारपरिणामाभावात् । आहारपरिणतिजशरीरश्यामत्वं शाकाद्याहारपरिणतिपूर्वकमिति चेन्न; अत्र साध्यद्वाराऽपि समव्याप्तर्वैयर्थ्यकबलितत्वात् । यत् श्यामं न भवति तत् शाकाद्याहारपरिणतिपूर्वकं न भवतीत्येतावता तत्सिद्धेः । श्यामत्वजातिविशेषोऽनुपात्तविशेषणः साध्यः, तेन न व्यर्थतेति चेन्न; विशेषणमन्तरेण तस्य दुर्वचत्वात् । विशेषशब्दमात्राभिधानेऽपि तस्यैव व्यर्थत्वात् । किंच कार्यत्वात् सकर्तृकमित्यत्रापि व्यर्थविशेषणत्वं सुवचम्; हेतुमत्त्वमात्रव्यतिरेकेण कार्यत्वव्यतिरेकस्य सुवचत्वात् । हेतुशब्दोऽत्रानुपात्त इति चेन्न; तस्य फलितत्वात् । अन्यथा अशरीरत्वशब्दप्रयोगे भवतोऽपि पर्यनुयोगानवकाशात् । विग्रहेण शरीराजन्यत्वं फलितमिति चेत्; तर्हि कर्तृशब्दनिर्वचनेनापि हेतुविशेषत्वं फलितम् , सकर्तृकमिति हेतुतयैव संबन्धो वाच्यः । एवं सावयवत्वादनित्यत्वाभिधानेऽप्यवयवजन्यत्वं फलितमिति तत्रापि व्यर्थविशेषणता स्यात् । नावयवैः संबन्धमात्रं , तेषु समवायमानं वा हेतुः; नित्येष्वपि जातिगुणादिषु तत्संभवात् । विपक्षे बाधकतयोक्ताकारणकार्योत्पत्तिप्रसङ्गोऽपि कर्तुः कारणविशेषत्वनिश्चयादेव परिहृतः । अचेतनं चेतनाधिष्ठितमेव प्रवर्तत इति नियमात् कारणमात्रत्वं सिद्धमिति चेन्न; नियमासिद्धेः । दृश्यते हि अयस्कान्तादिभिरप्ययःप्रभृतेः प्रवर्तनम् । अयोगव्यवच्छेदः सिषाधयिषितः, न त्वन्ययोगव्यवच्छेद इति चेन्न; अन्वयव्यतिरेकवतस्तस्यैवान्यस्य विशेषहेतुत्वोपपत्तौ ततोऽतिरिक्तस्यादृष्टस्य कल्पनायोगात् । विपक्षे बाधकामावस्य चोक्तत्वात् ॥
किंच, इदमधिष्ठानं किंरूपम्? प्रेरणमिति चेन्न; अमूर्तेषु तदयोगात् । हेतुत्वेन ज्ञानमात्रमिति चेन्न; प्रयत्नस्याकिंचित्करत्वप्रसङ्गात् । ज्ञानादित्रयवतः सन्निधानमात्रमिति चेन्न; तस्य नित्यत्वेन कार्यस्यापि सदातनत्वप्रसङ्गात् । अदृष्टविशेषान्नियम इति चेन्न; न तर्हि अदृष्टस्य एतदधीना प्रवृत्तिः, तस्यैव तन्नियामकत्वात् । अन्यथा तस्यापि यावत्सत्तं प्रवृत्तिप्रसङ्गात् । किंच स्वयमचेतनस्येश्वरज्ञानस्य न चेतनाधिष्ठानमस्ति; ज्ञानान्तराभावात् । वस्तुतश्चेतन एव ईश्वरात्मा तदाश्रयतया स्थित इति चेन्न; जीवेन सिद्धसाधनात् । सामान्यतः स्वयमेव तदपि ज्ञानं प्रतीयते इति तावता तदधिष्ठानमिति चेन्न; विशेषाकारस्याहेतुत्वप्रसङ्गात् । अन्यथा यथाकथंचित् सर्वगोचरज्ञानवत्त्वे सर्वस्रष्टुत्वाविरोधात् । ज्ञानान्तरेण तदधिष्ठानमिति चेन्न; अनवस्थानात् । एतेनैव तदधिष्ठानमिति चेन्न; अन्योन्यप्रवर्तनेऽन्योन्याश्रयणात् । उत्तरस्य ज्ञानस्य जगत्कारणत्वाभावान्नान्योन्याश्रयणमिति चेन्न; अत्यन्ताकारणत्वेऽसत्त्वप्रसङ्गात् । कारणाधिष्ठानौपयिकस्यास्य चाकारणत्वे प्रथमस्यापि कारणस्याकारणत्वप्रसङ्गात् । एवं चिकीर्षाप्रयत्नयोरप्यकारणत्वे गतमीश्वरकर्तृत्वेन । किंच यदकर्तृकं तत् कार्यं न भवतीति व्यतिरेकव्याप्तावहेतुकत्वमुमाधिः । अहेतुकत्वमकर्तृकत्वव्यापकमिति चेन्न; पक्षे सन्धिग्धत्वेनोपाधित्वानपायात् । अन्यथा शाकाद्याहारपरिणतेरप्यनुपाधित्वेन मैत्रीतनयस्य श्यामत्वमनुमीयेत । न च सामान्याभावस्य विशेषाभावव्यापकत्वम् । अन्यथा पृथिवीत्वाभावेन घटत्वाभावव्याप्तौ करकादेरपार्थिवत्वादिप्रसङ्गः । ननु कर्तहेतु विशेषत्वं नाम हेतुप्वन्यतमत्वं, सर्वकार्याननुवृत्तत्वं वाऽभिप्रेत्येदमुच्यते; तत्रादृष्टादावपि प्रसङ्गादाद्यो निरस्तः । द्वितीयस्तु कल्पोऽसिद्ध इति चेन्न; पूर्वोक्ताधिष्ठाननियमनिरासेन दत्तोत्तरत्वात् । किंच क्षित्यादिकमितीश्वरघटादिसंयोगः पक्षीकृतः? नवा? पूर्वत्र भागासिद्धिः, एतदनुमानसिद्धपक्षीकारेऽन्योन्याश्रयणम् , उत्तरत्र सन्दिग्धानकान्तिकता । घटेश्वरसंयोगस्य सकर्तृकत्वसन्देहेऽपि ईश्वरसिद्धिरविरुद्धेति चेन्न; तत्संयोगवदेव केषांचिदन्येषामप्यकर्तृकत्वं भवेदिति शङ्कामात्रस्य दुर्वारत्वात् । तावताऽपि क्षित्यादिसकर्तृकत्वनिश्चयभङ्गात् । विप्रतिपन्नं कार्य सकर्तृकमिति सामान्यतः पक्षीकारात् न कश्चिद्दोष इति चेन्न; सामान्यस्य प्रयोगस्यापि समस्तविशेषकवलीकारार्थत्वात् । ततश्च समस्तविशेषाणां सामान्यतः सिद्धिसाकाङ्क्षत्वात् । अन्यत इत एव वा तत्सिद्धावनुमानवैयर्थ्यान्योन्याश्रयौ दुष्परिहरौ ॥