54 निमित्तमात्रेश्वरवादनिरासः

तस्य निमित्तमात्रत्वानुमानिकत्वनिरासः ॥ एतेन पातञ्जलशैवकाणादादीनां निमित्त [व] मात्रवादोऽपि निरस्तः । कारणावस्थसूक्ष्मचिदचिद्वस्तुविशिष्टस्य तस्यैवोपादानत्वश्रुतेः । न च तावता निर्विकारत्वश्रुतिविरोधः, तस्याः सर्वान्तर्यामिशरीर्यशव्यवस्थितत्वात् । विशिष्टवेषेण विकाराश्रयत्वं त्विष्टमेव, मनुष्यादिशरीरविशिष्टे स्वरूपतो निर्विकारे पुंसि बाल्ययुवस्थविरत्वस्थूलत्वादिवत् । ईश्वरो न जगदुपादानं जगन्निमित्तत्वात् , यो यन्निमित्तं न स तस्योपादानम्, यथा घटस्य कुलाल इति चेन्न; धर्मिग्राहकविरोधात् । निमित्ततयैवानुमानसिद्धः पक्षीकृत इति [न विरोध] इति चेन्न; तस्यानुमातुमशक्यत्वात् ।