ब्रह्मणः त्रिविधपरिच्छेदराहित्यम् ॥ जगद्ब्रह्मणोरत्यन्तभेदे कथं त्रिविधपरिच्छेदराहित्यम्? इत्थम् तत्र देशकालपरिच्छेदाभावस्तु सर्वदेशकालव्याप्तत्वात्सिद्धः । वस्तुपरिच्छेदराहित्यं तु न सर्वतादात्म्यम् , सर्वाध्यासाश्रयत्वम् , स्वेतरसमस्तमिथ्यात्वादिकं वा; प्रागुक्तदूषणशतोन्मेषात् । अतोऽन्यथैतन्निर्वाह्यम् । तत्रैवमुक्तं जन्माद्यधिकरणे विवरणकारैः-* वस्तुपरिच्छेदो वस्तुपरिमाणम् । देशपरिच्छेदस्तहेतुकः इति । अयमेवार्थों वेदार्थसंग्रहविवरणेऽप्युक्तः । वरदनारायणभट्टारकैस्त्वेवमुक्तं न्यायसुदर्शने-* वस्तुपरिच्छेदो नाम इयद्गुणक इयद्विभूतिमानित्येवंविधः । तद्रहितं ब्रह्म । वस्त्वन्तरभावो वा वस्तुपरिच्छेदः । तद्रहितं च ब्रह्म । ब्रह्मव्यावृत्तस्य सर्वस्य ब्रह्मशरीरत्वात् तद्व्यतिरिक्तं किंचिदपि नास्ति इति । अयमसौ न भवतीति व्यवहारो न तस्यामवस्थायां प्रवर्तत इत्यर्थः । तथा च भाष्यकारः*ब्रह्मव्यतिरिक्तवस्त्वन्तराभावात् इति । अयमेवाों नारायणायैरप्युक्तः-*गुणैरियत्ताराहित्याद्वस्तुनाऽपरिच्छिन्नत्वं चावगम्यते इति । अत्र * इयद्गुणक इत्यादिपक्ष एव प्रायः श्लाध्यः । एतदुक्तं भवति; स्वरूपतो गुणतो विभूतितो वा केनचिदाकारेण कुतश्चिदपकर्षो वस्तुपरिच्छेदः । वस्तुपरिमाणमिति पक्षोऽप्येतदन्तर्गतः । तथा वस्त्वन्तराभावपक्षोऽपि । स हि सर्ववस्तुसामानाधिकरण्यनिबन्धनं सर्वशरीरत्वेन सर्वात्मकत्वमिति नियमनादिगुणकाष्ठैवेति । तदेवमत्यन्तभिन्नानन्तवस्तुसत्यत्वेऽपि ब्रह्मणस्त्रिविधपरिच्छेदराहित्यमुपपन्नम् ॥