52 सप्तभङ्गीनिरासः

सप्तभङ्गीनिरासः ॥ सप्तभङ्गीभक्तान् प्रति चोद्यते -
यदि सत्त्वादनैकान्त्यं विमतस्यान्यवन्मतम् । तस्यैकान्त्ये त्वनैकान्त्यमनैकान्त्ये न नः क्षतिः ॥ विशेषणविशेष्यत्वप्रतीते.कधीः क्वचित् । एकोऽयं घट इत्यादिरेको दण्डीति बुद्धिवत् ॥ परतन्त्रस्वभावत्वान्मत्वर्थीयानपेक्षता । सहधीनियमोऽप्येवं स हि भेदैकसाधकः ॥
असिद्धिश्च विना द्रव्यं गन्धादेरुपलम्भनात् । आलोकाध्वान्तरूपादावनैकान्त्यं च दृश्यताम् ॥ तदयं संग्रहः-नाभेदधीः प्राग्वैशिष्ट्याद्धर्मैक्यादेकता मतिः । मत्वर्थीयः पृथक्सिद्धे सहभावोऽपि भेद[त]कः ॥