51 जगद्ब्रह्मणोः भिन्नाभिन्नत्वनिराकरणम्

भिन्नाभिन्नत्वं भवदभिमतं विरुद्धमिति वक्तुमपि लज्जामहे । तथाऽपि ब्रूमः । अभेदो हि भेदाभावः । अतस्तं च तदभावं च कथमेकत्रैकदैवाध्यवस्येम? भेदाभावातिरिक्तस्त्वभेदो नास्त्येव । जात्याकारेणाभेद इति चेत्; तर्हि जात्यादावभेदो व्यक्त्यादिषु भेद इति नैकस्य भिन्नाभिन्नत्वम् । जातिव्यक्त्यादिकमपि मिथो भिन्नाभिन्नमिति चेत्; इदं स्वरूपेणैव वा? आकारान्तरेण वा? पूर्वत्र विरोधः । उत्तरत्र अनवस्थादिदोषः ।