50 शङ्करादिपक्षत्रयेऽपि जगद्ब्रह्मणोः सामानाधिकरण्यानुपपत्तिनिरूपणम्

सामानाधिकरण्यं हि न शुक्तिकलधौतयोः । न च द्विचन्द्रयो पि बिम्बतत्प्रतिबिम्बयोः ॥ न घटाकाशयो पि घटद्वितयरन्ध्रयोः । तथैव न घटाकाशमहाकाशादिकेष्वपि ॥ . एवं न पिण्डघटयोर्न वा घटशरावयोः । न च पिण्डांशयो पि घटयोश्च परस्परम् ॥
मृदाद्याकारतो या तु सामानधिकरण्यधीः । व्यक्तिभेदेऽपि जात्यादिनिमित्तैक्यनिबन्धना ॥ अक्लिष्टत्वेऽपि पक्षाणां नैयायिकादिमतमेव साधीयः । तथा हि - वाचां परिगृहीतानां यूपादित्यादिवाक्यवत् । व्याहतार्थाभिधायित्वाद्वरं क्लिष्टार्थकल्पना ॥