49 शङ्करादिपक्षत्रयेऽपि ब्रह्मण उपादानत्वानुपपत्तिनिरूपणम्

शङ्करादिपक्षे ब्रह्मोपादानत्वानुपपत्तिः ॥ न च तत् स्वरूपेण जगदुपादानम्; निर्विकारत्वनिदोषत्वादिविरोधात् । नापि शक्त्युपधानेन; शक्तेरभिन्नत्वे स्वरूपानतिरेशात् । भिन्नत्वेऽस्मन्मतापातात् । भिन्नाभिन्नत्वेऽभिन्नत्वाकारेण विकारादिदोषप्रसङ्गात् । एतेन स्वतस्सर्वेषां भिन्नाभिन्नत्वमपि निरस्तम् । व्यावृत्तमेव [सन्मात्रस्यांशिनो ब्रह्मत्वमपि निर्विकारत्वनिर्दोषत्वादिविरोधात् पूर्वमेव] दूषितम् । शङ्करादिपक्षत्रयेऽपि चिदचित्प्रपञ्चब्रह्मणां बहुविधसामानाधिकरण्यवरूप्येण लक्षणादिभिश्च महान् क्लेशः ।
निर्भदे सति दौष्कर्याद्विधाय जगदात्मताम् । तत्रैव तद्धिषेधोऽयमिति बालिशजल्पितम् ॥