48 ब्रह्मणि प्रपञ्चाध्यासनिरासः

ब्रह्मणि प्रपश्चाध्यासनिरासः ॥ एतेन निर्विशेषस्यापि ब्रह्मण आच्छादिकयाऽविद्यया तिरोहितस्य विक्षेपिकया तया प्रपञ्चाध्यास एव सृष्टिरित्यपि निरस्तम् । तस्य अविद्यादिदोषगन्धायोग्यत्वात् । सर्वज्ञत्वादिगुणगणविशिष्टत्वस्य नित्यचेतनबहुत्वस्य च समर्थितत्वात् । * सदेव इत्यादिवाक्येऽप्युपादानत्वविधानवुद्धिस्थकारणान्तरनिषेधमात्रे तत्परत्वस्य पौर्वापर्यादिपर्यालोचनसिद्धत्वात् ॥
किंच- अधिष्ठानस्य कालन्येन भानेऽभाने च न भ्रमः । भातामाताकृतिभिदा सविशेषत्वसाधिका ॥ अतो निर्विशेषस्य तिरोधेयधर्मविशेषायोगात् , स्वरूपमात्रतिरोधाने स्वस्यैव हानिप्रसङ्गात् , स्वयंप्रकाशतयाऽत्यन्तविशदस्वरूपे च वस्तुनि बाधकप्रत्ययावसेयविशेषाभावेन [नित्यमोक्ष] अनिर्मोक्षासंसारयोरन्यतरप्रसङ्गात् । अभिज्ञाप्रत्यभिज्ञयोरपि हि देशकालादिविशेषादस्त्येव मात्रया वैषम्यम् ॥
अभिज्ञायाः प्रत्यभिज्ञा विशिष्टविषया सती । तदशक्यभिदाबाधप्रगल्भा न तथाऽत्र ते ॥ अतो यदि स्वरूपं निवर्तकम्; नित्यनिवृत्तिः स्यात् । यदा तु तदतिरिक्तं मानम्; तदा सविशेषत्वमेष्टव्यम् । अमानस्य निवर्तकत्वादर्शनात् मानत्वमेव निवर्तकत्वौपयिकमिति चेत् , तद्वदेवामेयस्याधिष्ठानत्वादर्शनात् मेयत्वमेव तदौपयिकमिति किं न स्वाक्रियते? जडाजडवैषम्यादिति चेत्; तुल्यम् । मानस्यापि स्वरूपातिरिक्तस्य जडत्वात् । स्वरूपानुप्रवेशिनस्तु तदंशस्य प्रागपि सत्वात् ॥ किंच
ब्रह्मणो निर्विशेषत्वमिति धर्मोऽस्ति वा न वा । द्विधाऽपि सविशेषत्वं तद्योगतदयोगजम् ॥ त्वद्वाक्याद्धान्तिसिद्धं तल्लक्षणावृत्त्यनूदितम् । निषेधामोऽभिधाशक्तिर्नास्तीति हि निषिध्यते ॥ निर्विशेषा पुरीत्युक्तिर्यथैकत्र न तिष्ठति । तथा सर्वप्रयोगश्च विशेषे पर्यवस्यति ॥ विशेषो निर्विशेषश्चेत् सोऽपि कस्यापि वा न वा । पूर्वत्र सविशेषत्वमन्यत्र न विशेषता ॥
ब्रह्म निर्विशेषमित्यभिलापमात्रमिति चेत्; तर्हि सिद्ध नः समीहितम् । वस्तुतो विशेषप्रतिक्षेपाभावात् , अन्ततश्वामिलापगोचरत्वस्य विधानात् । वस्तुमात्रस्य तदपि नास्तीति चेन्न
अवाच्यं वाच्यमिति वा वस्तुनि प्रतिपादिते । वाच्यमेव भवेद्वस्तु वाच्यावाच्यवचोऽन्वयात् ॥ किंच- दृढाध्यक्षादिमानेन जगत्सत्यत्वनिर्णये । निर्विशेषवचोऽन्यार्थं यूपादित्यैक्यवाक्यवत् ॥
प्रत्यक्षादिप्रत्ययो निरालम्बनः प्रत्ययत्वात्स्वामप्रत्ययवत् , प्रपञ्चो मिथ्या दृश्यत्वाव्यावर्तमानत्वात् शुक्तिरूप्यवदित्यादिभिरागममन्तरेणापि जगदाध इति चेन्न; निर्विषयासदन्यथाख्यातिसाधने विरोधापसिद्धान्तादिदोषात् । अनिर्वाच्यत्वसाधने अप्रसिद्धविशेषणत्वस्ववचनविरोधादिदोषात् । विरुद्धयोः समुच्चयवत् तत्प्रतिक्षेपयोरपि परस्पराभावात्मनोः समुच्चयस्य विरुद्धत्वात् । तथा
सदसद्ध्यतिरेकेण [साधना]विधानात्तन्निषेधनात् । सदसल्यतिरिक्तस्य सिद्धा सदसदात्मता ॥ एकविज्ञानेन सर्वविज्ञानं च न ते भवेत् । सद्विज्ञानेन सदसदन्यविज्ञप्तयसंभवात् ॥
ऐक्यसाधर्म्यवैधर्म्यभावैः स्यादेकतोऽन्यधीः । बाधासिद्धयध्याहृतयो लक्षणा च स्युरत्र ते ॥ किंच- तत्त्वे द्वित्रिचतुष्कोटिव्युदासेन यथायथम् । निरुच्यमाने निर्लज्जैरनिर्वाच्यत्वमुच्यते ॥ तथा बाधतद्योग्यत्वादिसाधने चानुपलम्भादिदोषात् । नश्वरत्वादिसाधनं त्विष्टमेव । किंच- तत्तत्पक्षादिबुद्धीनां प्रमाणत्व [भ्रम] प्रमात्वयोः । बाधासिद्ध्यादयो दोषा विज़ुभन्ते यथायथम् ॥ तदभ्युपगमे चानुमानस्य निष्प्रयोजनत्वस्ववचनविरोधानुत्थानानि स्युः । किंच समस्तप्रत्यक्षाद्यप्रमाणत्वसिद्धावेतदनुमानो. स्थानम् , ततश्च तत्सिद्धिरित्यन्योन्याश्रयणम् । भेदवासनादोषमूलत्वात् प्रत्यक्षमप्रमाणमिति चेन्न; दोषत्वाप्रमाणत्वयोरन्योन्याश्रयणात् । शास्त्रतोऽन्यतरसिद्धौ तत्प्राबल्यापेक्षया चक्रकापातः, श्रुतिप्राबल्याप्रामाण्यदुष्टकारणत्वनिश्चयानुमानप्रवृत्तीनाम् । तत्तत्पदार्थस्वरूपं प्रत्यक्षादिविषयः, धर्मस्तु मिथ्यात्वादिनामकस्तदविरुद्धानुमानविषय इत्यविरोध इति चेन्न; स्वरूपसिद्धे रेव मिथ्यात्वविरोधात्स्वरूपाविरोधिमिथ्याशब्दपरिभाषितधर्मसाधने चास्माकमनिष्टाभावः ॥ किंच - मिथ्यावादिप्रतिज्ञार्थः स्वप्रतिज्ञां स्पृशेन वा । आद्य स्वस्यैव विध्वंसो द्वितीये व्यभिचारिता ॥
मिथ्यात्वस्य तु मिथ्यात्वे मिथ्यात्वं बाधितं भवेत् । सत्यत्वस्य तु सत्यत्वे सत्यत्वं स्थापितं भवेत् ॥ यदि प्रपञ्चमिथ्यात्वं सद्मैवेति सद्भवेत् । प्रपञ्चश्च तथैवेति स सत्यो न कथं भवेत् ॥ जडत्वात्स न तच्चत्तन्मिथ्यात्वं च न तद्भवेत् । तत्त्वेनैव तदन्यत्वान्न तत्सत्यं च ते भवेत् ॥
सदसद्भिन्नता चापि विरोधात्सदसत्त्ववत् । परस्परमतिस्तस्य बाधिकेति निरूप्यताम् ॥ किंच, प्रपञ्चतद्वाधकप्रत्ययाभ्यामुपहितानुपहितादिवेषेण ब्रह्मणोऽपि दृश्यत्वादनैकान्त्यम् , ब्रह्ममिथ्यात्वं वा स्यात् । अनुभूतिरवेद्या, अनुभूतित्वादिति चेन्न;
अनुभूतिरवेद्येति वचनं बोधकं न वा । आये तेनैव वेद्यत्वं नो चेकिं व विधीयते ॥ ब्रह्मणश्चात्यन्तावेद्यत्वे *अथातो ब्रह्मजिज्ञासा, *ब्रह्मविदाप्नोति परम् , *आत्मा वा अरे द्रष्टव्यः इत्यादिव्याकोपश्च । उपदेशश्च निष्प्रयोजनः, उपदेष्टश्चाद्वैतनिश्चयानिश्चययोः कस्मै किमुपदेश्यम्? न ह्यनुन्मत्ता मिथ्यात्वेन निर्णीतेभ्यः प्रतिबिम्बादिभ्य उपदिशन्ति । व्यावृत्त्यनुवृत्तिमात्रं तु न मिथ्यात्वादिप्रयोजकम् । तथा हि व्यावृत्तेऽपि च सत्यत्वं रज्जुवंशादिके स्फुटम् । तत्रैवं चानुवृत्तस्य मिथ्यात्वमपि भोगिनः ॥ व्यावृत्तिमात्राद्यदि तत् सतोऽप्येतत्प्रसज्यते । सत्त्वं घटस्येहेदानीं नास्तीत्यादिनिरूपणात् ॥ तच्चेत्तद्देशकालादौ नापोडं तत्समं घटे । सदेव घटदेशश्चेन्नान्यथैवोपलम्भनात् ॥ सत्सदित्यनुवृत्त्या चेत् सतः सत्यत्वमिष्यते । भिन्ननास्त्यनुवृत्त्यादेभेदनास्त्योश्च सत्यता ॥ देशकालादिभेदेन नास्तिता सर्वगामिनी । भिन्नता च मिथोऽपेक्षा न क्वचिद्विनिवर्तते ॥ शब्दमात्रानुवृत्तिश्चेत् तत्रापि च तथैव नः । तत्तत्प्रमाणयोग्यत्वमात्रं सत्तेति मन्महे ॥
अनावृत्तधिया सत्ता सर्वभावानुयायिनी । यद्यपीष्टा तथाऽप्येषा तद्धमत्वेन सिध्यति ॥ अतः प्रतिपन्नदेशकालादौ निवृत्तं मिथ्या; नान्यत् । अन्यत्सदिति तत्त्वम् । प्रत्यनुमानं च -
भानासयतिरेकाद्यैर्विमतं सत्यमात्मवत् । विमतः प्रत्ययः सम्यग्ज्ञानाबाधात्स्वतन्त्रवत् ॥ इत्यादि । अत्रान्तिमयुगवेदान्तिनामभिजन्मरहस्यं प्रकाशयामः ।
सांख्यसौगतचार्वाकसङ्कराच्छाङ्करोदयः । दूषणान्यपि तान्यत्र भूयस्तदधिकानि च ॥ तदेवं सिद्धं न च ब्रह्म बम्भ्रमीतीति ॥