47 निर्गुणवादनिरासः

निर्गुणवादनिरासः ॥ अत एव निर्गुणवादोऽपि निरस्तः । विरुद्धौ गुणविधिनिषेधौ कथमिति चेत् , विचारयामः । न तावदत्र समुच्चयो युक्तः; विरोधात् । अत एव नोभयत्यागः । न च विकल्पः; सिद्धे तदयोगात् । न चान्यतरत्यागः; किं त्याज्यमिति नियामकाभावात् । अपच्छेदनयात् पूर्वं त्याज्यमिति चेत्; तस्यानियतविरोधपौर्वापर्यविषयत्वात् । नियमे हि विरोधनयात् परानुत्पत्तिरेव । न च विषयव्यवस्थया विरोधपरिहारे सति अन्यतरात्यन्तबाधकापच्छेदन्यायावतारो युक्तः; गुणनिषेधवचसामुत्सर्गापवादन्यायेन विहितमङ्गलगुणव्यतिरिक्त विषयत्वात् , श्रूयमाणे हेयगुणनिषेधे पर्यवसानात् । उक्तं च तत्त्वसारे
* यद्ब्रह्मणो गुणशरीरविकारजन्मकर्मादिगोचरविधिप्रतिषेधवाचः ।
अन्योन्यभिन्नविषया न विरोधगन्धमर्हन्ति तन्न विधयः प्रतिषेधवाध्याः ॥ इत्यादि। एवं स्थितेऽपि निषेधार्थस्वभावप्रयुक्तपरत्वमात्रेण यदि निर्विशेषवचसा पूर्वबाधः; तदा शून्यवचसा तस्यापि बाधात् माध्यमिकमतस्यैव विजयित्वम् । द्वयोरपि वचसोः पारमार्थिकस्य प्रामाण्यस्यानभ्युपगमात् । अपारमार्थिकस्य चाविशिष्टत्वात् । तदेवमुभयलिङ्ग एवेश्वरः ॥