46 भगवतः सर्वत्र पूर्णत्वनिरूपणम्

भगवतः सर्वत्र पूर्णत्वम् ॥ तिसृषु च मूर्तिषु परिपूर्ण एवेश्वरः । प्रजापतिपशुपतिमूर्योस्तु प्रमाणबलात् जीवव्यवहित इति विशेषः । एवमेव सर्वत्रापि पूर्ण एव । अन्यत्र विद्यमानस्यान्यत्र पूर्णत्वं न स्यादिति चेत्; किमिदं पूर्णत्वं निषिध्यते? किमत्रैव विद्यमानत्वम्? किमत्र पूर्णोपलब्धिविषयत्वम्? किं वाऽत्र पूर्णकार्यजननसामर्थ्यम्? किं वाऽत्र समस्तगुणविशिष्टत्वम्? नाद्यः; तस्यास्माभिरनभ्युपगमात् । न द्वितीयः; तन्निषेधोऽपीह स्वरूपोपलब्धिनिषेधमात्रं वा? कृत्स्नभागोपलब्धिनिषेधो वा? अंशत्वानुपलब्धिनिषेधो वा? आये त्वायोजकत्वम्; अनुपलम्भस्य सामग्रयभावप्रयुक्तत्वात् । तस्याश्चात्र सत्त्वे तदुपलम्भोपपत्तेः । द्वितीये सभागत्वसिद्ध्यसिद्ध्योरिष्टप्रसङ्गः । तृतीयेऽशत्वाभावादेवांशत्वानुपलब्धियुक्तेति न तन्निषेधः । बहुसंबन्धादेव तत्तत्संबन्धावच्छेदेनांशत्वं स्यादिति चेन्न; बहुगुणव्यक्तिप्रतियोग्यादिविशिष्टेषु द्रव्यजातिनिषेधादिषु तैस्तैस्तदनभ्युपगमात् । यथोपलम्भं तद्वदेव संयोगादिष्वपि । निरंशेष्वपि भावाभावसामानाधिकरण्यस्य युगपद्धाविनोऽपि व्यवस्थाप्यत्वात् । अन्यथा समस्तसंवन्धतत्त्वस्यैव लोपे तन्मूलभूतसमस्तकार्यकारणभावादिलोपात् शून्यताप्रसङ्गात् । न च तृतीयः; अवच्छिन्नदेशे सर्वोत्पत्तिनिषेधस्येष्टत्वात् । सर्वानु– कूलशक्तिमतस्तत्रापि वृत्तौ विरोधाभावात् । यत्रयत्र यद्यत्कार्यं दृष्टम् , तत्रतत्र तदनुकूलत्वेन तच्छक्तेः स्वीकारे कचित्सर्वोत्पत्तिप्रसङ्गाभावात् । अन्यथा शक्तस्यापि सर्वदा कार्यकरणप्रसङ्गे तद्विपर्ययात् क्षणभङ्गावतारात् । तदभ्युपगमेन प्रत्यवस्थाने तद्भङ्गेन भङ्गात् । यदि च कालक्रमेण कचित् सर्वोत्पादकत्वप्रसङ्ग इष्टः; तदा सर्वदेशभाविकृत्स्नव्यक्तिविवक्षायां व्याघातः । भूतानामन्यत्र भवन्तीनां व्यक्तीनामत्र भवननैरपेक्ष्यात् । नष्टानां कदाचिदप्यत्र जन्मागमयोरयोगात् । स्वसजातीयमात्रविवक्षायामिष्टप्रसङ्गात् । विभूतिद्वयस्यापि अंशतः संभेदोऽवतारदशायां दृश्यते । नापि चतुर्थः; रूपरसगन्धादीनां स्वाश्रयव्यापिनां कृत्स्नप्रदेशव्यापित्वस्यावयविपरमाण्वादिषु तैस्तैरभ्युपगमात् । एतत्सर्वं * कृत्यप्रसक्तिर्निरवयवत्वशब्दकोपो वा इति परिचोद्य * श्रुतेस्तु इत्यादिभिः परिहरन् सूत्रकार एवं प्रदर्शितवान् । अतो यथागमं सर्वत्र पूर्ण एव भगवान् ॥