नापि ब्रह्मरुद्रादेः ; तेषां सृज्यत्वसंहाग्यकर्मवश्यत्वादिश्रवणेन जीवत्वसिद्धेः जातकण्ठोक्तकर्मवश्यत्वकार्यत्वेषु न हेतुता । कार्यता लीलया युक्ता कारणस्य हतैनसः ॥ कारणादिप्रकरणेषु च तत्तद्वाचकशब्दानां शरीरिपर्यन्ततया निर्वचनान्तरेण वा आकाशप्राणादिशब्दवत् परमात्मन्येव पर्यवसानसिद्धेः । तदयं संग्रहः-मन परविद्यासु जीवोक्तिर्निरुक्त्यादेः पराश्रया । तल्लिङ्गानन्यथासिद्धौ तद्विशिष्टावलम्बिनी ॥ स्वोपासनोपदेशस्वसर्वैश्वर्यप्रपञ्चनादेश्च प्रह्लादवामदेवादिवत् शास्त्रावगतस्वात्मशरीरकपरमात्मानुसन्धानमूलत्वात् तस्य च सर्वशरीरस्य यथाविधि चेतनाचेतनविशिष्टतयाऽप्युपास्यत्वोपपत्तेः । अथर्वशिरश्श्वेताश्वतरादीनां निर्वाहः पुरुषनिर्णये प्रपञ्चितः ; श्रीभाष्यकारैश्च वेदार्थसंग्रहभाष्यादिषु । तदखिलानुसन्धायिभिर्वात्स्यवरदगुरुभिस्तत्त्वनिर्णयाख्ये प्रकरणे सर्वो निष्कर्षः संगृहीतः । तत्त्वसारे च - * कस्त्वं तत्त्वविदस्मि वस्तु परमं किं तर्हि विष्णुः कथं तत्त्वेदंपरतैत्तिरीयकमुखत्रथ्यन्तसंदर्शनात् ।
अन्यास्तर्हि गिरः कथं गुणवशादत्राह रुद्रः कथं तदृष्टया कथमुद्भवत्यवतरत्यन्यत्कथं नीयताम् ॥ इत्यादिभिः श्लोकैः संगृहीतः । एवं च नारायणस्यैव परमकारणत्वमुमुक्षूपास्यत्वसर्वान्तर्यामित्वादिसिद्धेस्त्रिमूर्तिसाम्यैक्योत्तीर्णव्यक्त्यन्तरपरत्वपक्षाश्चत्वारोऽपि निर्मूला वेदितव्याः ।