अद्वितीयसमाभ्यधिकदरिद्रत्वश्रवणादसावेकः । स एव ब्रह्म । तस्यैव त्रिविधपरिच्छेद रहितस्य सर्वात्मकत्वेन निरतिशयबृहत्त्वबृंहणत्वश्रवणात् । “अग्निः सर्वा देवताः” आपोवा इदँ
सर्वम् “ब्राह्मणो वै सर्वा देवताः” “नकिनिरिन्द्र त्वदुत्तरः” इत्यादेर्व्यावघातकर्मविधिशेषत्वाभ्यामन्य- परत्वनिर्णयात् न तेषामानन्त्यब्रह्मत्वादिसिद्धिः ।
स एव सदसदव्याकृतब्रह्मात्माकाशप्राणशिवनारायणादिशब्देः कारणप्रकरणगतैः समान्यतोविशेषश्च व्यपदिश्यते । स च वृस्छिकोत्पत्तौ गौमयवृशअचिकादिवता जुगुत्पत्तौ देशकालभेदात् कारणानियमः किं न स्यादिति वाच्यम्; प्रमाणान्तरेण भेदासिद्धेः । शब्देन तु समानप्रकरणत्वप्रत्यभइत्रानात् सर्वशाखाप्रत्ययन्यायसामान्यविशेषन्यायभ्यामेकत्वादिकण्ठोक्त्या अभिन्नार्थोपपत्तौ भेकल्पनायोगात् । अतो न प्रधानादेर्ब्रह्मत्वम् ।