43 ईश्वरलक्षणनिरूपणम्

श्रीन्यायसिद्धाञ्जने ईश्वरपरिच्छेदः ॥
ईश्वरलक्षण निरूपणम् ॥
अथ ईश्वकश्चिन्त्यते । सर्वेश्वरत्वम्, व्यापकत्वे सति चेतनत्वम्, सर्वशेषित्वम्, सर्वकर्म समाराध्यत्वम्, सर्वफलप्रदत्वम्, सर्वाधारत्वम्, सर्वकार्योत्पादकत्वम्, स्वज्ञानस्वेतरसमस्तद्रव्य शरीरकत्वम्, स्वतस्सत्यसङ्कल्पत्वादिकञ्च ईश्वरलक्षणम् । यत्तु जन्मादिसूत्रे जन्मादित्रितयसमाहारो लक्षणमुक्तम्; तत्र एकैकस्य लक्षणत्वे सम्भवत्यपि त्रयाणां त्रयः कर्तार इति कुमतिशङ्काव्यावर्तनाय तदिति मन्तव्यम् । सत्यादिवाक्येऽपि अनन्तपदेनैव सर्वव्यवच्छेदसिद्धौ शङ्कितक्रमेण व्यवच्छेदात् पूर्वविशेषणद्वयम् । एवमन्यत्रापि भाव्यम् ॥