कैवल्याख्य मोक्षस्य श्रीभाष्यकारानभिमतत्व निरूपणम्॥
अत्रोच्यते। न तावदयं मोक्षो भाष्यकाराभिमतः ; शारीरकभाष्ये व्यक्तमुक्तत्वात्। तथा हि “वाक्यान्वयात्” इत्यधिकरणे तावत् “अमृतत्वस्य परमपुरुषवेदनैकोपायतया प्रतिपादनात्” इत्युक्त्वा “परमपुरुषविभूतिभूतस्य प्राप्तुरात्मनः स्वरूपयाथात्म्यवादनमपवर्गसाधनभूतपरमपुरुषवेद- नोपयोगितयाऽऽवश्यकम् ; न स्वत एवोपायत्वेन” इत्युक्तम्। तथा “येयं प्रेते विचिकित्सा मनुष्ये” इत्यादिव्याख्याने तत्तद्वाद्यभिमतमोक्षविषकल्पानुपन्यस्य “त्रय्यन्तनिष्णातास्तु” इत्यादिना जीवपरयोः स्वरूपस्वभावानप्यभिधाय “जीवस्यानादिकर्मरूपविद्यातिरोहितस्य अविद्याच्छेदपूर्वकस्वाभाविक परमात्मानुभवमेव मोक्षमाचक्षते” इत्युक्तम्। “सर्वकर्मलिनिर्मुक्तात्मस्वरूपावाप्तिर्हि भगवत्प्राप्ति गर्भा। “त इमे सत्याः कामा अनृतापिधानः” इति भगवतो गुणगणस्य तिरोधायकत्वेनानृतशब्देन स्वकर्मणः प्रतिपादनात्” इति वेदार्थसङ्ग्रहेऽभिहितम्। एवं वरदविष्णुमिश्रैरपि “नन्वेवं निश्शेषकर्मक्षयाभावात् कैवल्यप्राप्तौ न मुक्तः स्यात्” इत्याशङ्खयोक्तम् “सत्यम् ; अमुक्त एव सः। मोक्षस्य परमात्मानन्दानुभवरूपत्वात्, तस्य ब्रह्मानन्दानुभवाभावात् स्वानन्दमात्रानुभवात्। स्वानन्द- मात्रानुभवश्च “योगिनाममृतं स्थानं स्वात्मसन्तोषिणश्च ये” इति भगवत्पराशरवचनात्। मुक्तिव्यति- रिक्तमनपायि योगसाध्यमैश्वर्यम्” इति। भट्टपराशरपादैरध्यात्मखण्डद्वयव्याख्यायां ऐश्वर्याक्षरयोः अपवर्गव्यतिरिक्ततया तुल्यत्वं दर्शितम्। “अन्येष्वैश्वर्याक्षरभोगेषु अनपेक्षया जुगुप्सया साधिष्टानम्” इत्यादिना। यदि चासौ मोक्षः ; तदा स्वाभाविकरूपप्राप्तिमन्तरेण न पर्यवसानम्। यदि पर्यवसानम् ; तदा नित्यसंसारविशेष एवायमिति मन्तव्यम्। अशरीरस्य कथं संसारित्वमिति चेत् ; कथं वा प्रलयदशापन्नस्य? तदानीमप्युत्तरशरीराद्यारम्भयोग्यसूक्ष्मचित्संसर्गादिति चेत् ; अस्याप्यचि- त्संसर्गोऽभ्युपगन्तव्य एव। अतः शरीराम्भो भविष्यति न वेत्येष एव विशेषः। किमस्याचित्संसर्गे प्रमाणमितिचेत् ; स्वपरयाथात्म्यानुभवाभावः। मायायवनिकान्तर्हितो हि जीवो यथावस्थितं स्वरूपं न जानाति। किं कारणमिति चेत् ; कर्मविशेषः। उक्तञ्च वेदार्थसङ्ग्रहे “सर्वकर्मविनिर्मुक्तात्म स्वरूपावाप्तिर्हि भगवत्प्राप्तिगर्भा। त इमे सत्याः कामा अनृतापिधानाः” इति भगवतो गुणगणस्य तिरोधायकत्वेनानृतशब्देन स्वकर्मणः प्रतिपादनात्" इति। यद्यस्य निश्शेषाविद्याविलयेऽपि परमात्म याथात्म्यानुभवो न स्यात्, अन्येषामपि तथा स्यात् ; अविशेषात्। तावदेवास्य स्वाभाविकरूपं स्यात्।
अचित्संसर्गेऽपि कथमसौ पुनर्न संसरतीति चेत् ; कैवल्यहेतुकर्मजनितभगवत्सङ्कल्पस्य तथाविध- त्वादिति भाव्यम्। ननु तापत्रयाभिहितोऽयमीश्वरज्ञानादेव विशुद्धिं गतः, तत्कखं विशदस्वात्मानुभव- दशायामीश्वरं विस्मरेदिति चेत् ; सम्यगुक्तम्। तथापि कैवल्यसद्भावे निर्बन्धश्चेत् पूर्वोक्त एव हेतुः। उक्तञ्च सङ्गतिमालायां श्रीविष्णुचित्तैः “ननु ब्रह्मप्राप्तीच्छयोपक्रान्तस्योपासनस्य कथं केवलप्रापकत्वम् ? उच्यते ; यथा स्वर्गकामस्यैव यागे प्रक्रान्तस्य यथावदननुष्टाने ब्रह्मराक्षसत्वादि भवति” इति। ननु कस्यैवंविधे स्वाभाविकभगवदनुभवयोग्यतागन्धविधुरतया दग्धभीयपर्याये स्वात्मन्यभिलाषः स्यादिति चेत् ; हन्त ! अनेवंविधेष्वपि स्वर्गपशुपुत्रभिक्षोदनादिष्वभिलाषिणो दृश्यन्ते, किं पुनरतिशयानन्दशालिन्येवंविधे। प्रसिद्धश्च प्रियास्पदत्वं स्वात्मनः। आगमश्च " आश्चर्यवत्पश्यति कश्चिदेनम्" इत्यादि। सुप्तोत्थितप्रत्यभिज्ञानं सुखमहमस्वाप्समित्येवंरूपं प्रागेवोक्तम्। प्रपञ्चितञ्च भाष्यादिषु। श्रीविष्णुचित्तैश्चोक्तम् -
“स्वापे सुखत्वाभिज्ञानात् तद्विच्छेदे च रोषतः।
तदर्थमन्यत्यागाच्च श्रुतिस्मृतिशतैरपि॥” इति॥
कथमिह मोक्षव्यपदेश इति चेत् ; दुःखहेतुभूतदेहेन्द्रियात्यन्तविलयात्। केन मार्गेण केवला गच्छति? कुत्र तिष्टति? इति चेत् ; येन केनापि यत्रकुत्रापि। न तावदर्चिरादि गतिः प्रकृतेः परस्तात् वासश्चास्य युज्यते। परमात्मोपासनप्रकरणेष्वेव तयोः श्रवणात्। “तद्य इत्थं विदुर्येचेमेऽरण्ये श्रद्धा तप इत्युपासते” इति विभागस्यापि परमात्मकस्वात्मानुसन्धानस्वात्मशरीरक परमात्मानुसन्धानभेदमूलत्वात्। यदि चास्यार्चिरादिमार्गेण गतिस्यात्, तदा विशिष्टदेशप्राप्त्या नाश्शेषाविद्यानिवृत्तिर्ब्रह्मप्राप्तिश्च स्यादेव ; “स एनान् ब्रह्म गमयति” इति श्रवणात्। सूत्ऱञ्च “दर्शनाच्च” इति। एवञ्च सति ज्ञानसङ्कोच हेतुभूताविद्यात्यन्तविलयात् सर्वज्ञत्वादिप्रसङ्गो दुष्परिहरः। भगवद्यामुनमुनिरपि “संसृत्यक्षरवैष्णवाध्वसु” इति वैष्णवाध्वा पृथगुपदिष्टः। अक्षि पुरुषस्य परमात्मत्वनिर्णयायोक्ते “श्रुतोपनिषत्कगत्यभिधानाच्च” इति सूत्रे भाष्यञ्च “अधिगत परमपुरुषयाथात्म्यस्यैमुसन्धेयतया श्रुत्यन्तरप्रतिपद्यमानार्चिरादिका गतिर्या तामपुनरावृत्तिलक्षणपरम पुरुषप्राप्तिकरीमुपकोसलयाक्षिपुरुषं श्रुतवते” इत्यादि। अतोऽपि केवलात्मानुसन्धायिनोऽर्चिरादिगतिः नास्ति। अन्यथा तया परमात्मनिर्णयायोगात्। “अप्रतीकालम्बनान्नयतीति बादरायणः” इति सूत्रे चात्र वक्तव्यं सर्वं प्रपञ्चितं भाष्ये। पञ्चाग्निविद्यानिष्टस्यापि प्रकृतिविनिर्मुक्तब्रह्मात्मकस्वात्मा- नुसन्धायित्वं तत्रैव तत्क्रतुर्न्यायादिना निर्णीतम्। भूमविद्यागतप्राणशब्दवाच्यकेवलजीवोपासकस्य च अर्चिरादिगतिः कण्ठोक्त्या प्रतिषिद्धा “नामादिप्राणपर्यन्तप्रतीकालम्बनानां तु उभयविधश्रुतिसिद्धो- पासनासमाभवात् तत्क्रतुर्न्यायार्चिरादिगतिर्ब्रह्मप्राप्तिश्च न विद्यते” इत्यादिना। नामादिप्राणपर्यन्तो- पासकानां “विशेषञ्च दर्शयति” इति सूत्रेण फलान्तरञ्च प्रदर्शितम्। तदधिकरणोपसंहारे चोक्तम् “तस्मादचिन्मिश्रं केवलं वा चिद्वस्तु ब्रह्मदृष्ट्या तद्वियोगेन च य उपासते; न तान् नयति। अपि तु परं ब्रह्मोपासीनानामात्मनञ्च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानातिवाहिको गणो नयतीति सिद्धम्” इति। सारे चोक्तम् “पञ्चाग्निविदस्तु प्रकृतिवियुक्तात्मस्वरूपं"य आत्मनि तिष्टन्” इत्यादिना ब्रह्मात्मकमुपासते इत्यप्रतीकालम्बनत्वं तत्क्रतुन्यायविरोधश्च। उभयेऽपि परिपूर्णं ब्रह्मोपासते मुखभेदेन स्वात्मशरीरं ब्रह्म केचन। ब्रह्मात्मकस्वात्मानमितरे" इत्यादि। एवं दीपेऽपि प्रपञ्चितं दृष्टव्यम्। एवं स्थिते श्रीमद्गीताभाष्यवाक्यान्यपि तदनुरोधेन वर्णनीयानि। पञ्चाग्निविदोऽर्चि- रादिगतिस्तावत् सर्वग्रन्थेषु अविगीता। तस्य च परमात्मात्मकस्वात्मानुसन्धातृत्वं सिद्धम्। तस्य किं कैवल्यमेव पुरुषार्थः? उत परमात्मानुभवेऽपि? इत्यत्र विशयः। तत्र च शारीरकभाष्याद्य- नुसारे तस्य परमात्मानुभवः, श्रीमद्गीताभाष्यस्वारस्यानुसारे कैवल्यम्, इतीच्छन्ति। उभयविरुद्ध- तया ग्रन्थनिर्वहणन्तु श्रीमद्गीताभाष्यटीकायां तात्पर्यचन्द्रिकायामुक्तमस्माभिः॥
अत्र किञ्चिदुच्यते। यस्त्वयं “आत्मयाथात्म्यविदः परमपुरुषनिष्टस्य च साधारणीमर्चि- रादिकां गतिमाह” इत्यादिग्रन्थस्तु प्रस्तुतत्वमात्रेण कैवल्यनिष्टपरमपुरुषनिष्टविषय इति न मन्तव्यम्। किं तु परमात्मकस्वात्मानुसन्धातृस्वात्मशरीरकपरमात्मानुसन्धातृभेदभिन्नब्रह्मविद्विषय एव। तथा सति आत्मयाथात्म्यविच्छब्दोऽप्यत्यन्तानुगुणः। एकग्रन्थशकलास्वारस्यं बहुग्रन्थ स्वारस्याय ग्राह्यम्। नचात्र कश्चिद्भगवद्यामुनमुनिवचनविरोधगन्धोऽपीति। श्रीमद्गीताभाष्येऽपि पञ्चाग्निविद्यानिष्टस्य ब्रह्मात्मकस्वात्मानुसन्धानम्, तत्क्रतुन्यायात् ब्रह्मप्राप्तिष्च स्फुटतरं प्रत्यपादि। केचित्तु ब्रह्मभूतस्वात्मा कैवल्यभोग्यः, ब्रह्मणस्तु स्वात्मविशेषणतया भानमात्रमस्तीत्याहुः। तर्हि न तत्कैवल्यं भवेत्। साधनतो गतितः प्रमाणतः प्रकारतश्च दुर्निरूपञ्चतदित्यात्मयाथात्म्यविदः॥
कान्तां प्राप्य विचित्रकर्मरचितां पर्यायतो भूमिकां
केनाप्यद्भुतनाटकेन कमपि श्रीमन्तमानन्दयन्।
कृत्वा शास्त्रमुखे मनः प्रतिमुखं गर्भावमर्शात्परं
विद्यानिर्वहणेन लब्धविभवो हृद्येष विद्यातते॥38॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीन्यायसिद्धाञ्जने जीवपरिच्छेदो द्वितीयः॥