कैवल्याख्योमोक्षःसाम्प्रदायिक इति पूर्वपक्ष्यभिप्रायोपन्यासः॥
ननु स्वात्मानन्दानुसन्धानरूपकैवल्याख्योऽपि मोक्षो भगवद्यामुनमुनिभिरुक्तः ;
“ऐश्वर्याक्षरयाथात्म्यभगवच्चरणार्थिनाम्।
वेद्योपादेयभावानामष्टमे भेद उच्यते॥” इति,
“संसृत्यक्षरवैष्णवाध्वसुनृषां सम्भाव्यते कर्हिचित्” इति च। अनुसृतश्चायमर्थो भाष्यकारैरपि। तथा हि “चतुर्विधा भजन्ते माम्” इत्यादौ “जिज्ञासुः प्रकृतिवियुक्तात्मस्वरूपावा- प्तीच्छुः” इत्याद्युक्तेः। अष्टमाध्यायारम्भेऽपि सप्तमार्थानुक्रमणे “सुकृततारतम्येन च प्रतिपत्ति वैशिष्ट्यादैश्वर्याक्षरयाथात्म्य भगवत्प्राप्तीच्छयोपासकभेदम्” इत्याद्युक्तेश्च। तथा “कैवल्यैर्थिनैं स्मरणप्रकारमाह” इत्युक्त्वा “यदक्षरं वेद” इति श्लोकमवतार्य “सर्वद्वाराणि” इत्यादेर्व्याख्याने “ओमित्येकाक्षरं ब्रह्म मद्वाचकं व्याहरन् वाच्यं मामनुस्मरन्नात्मनः प्राणं मूर्धन्याधाय देहं त्यजन् यः प्रयाति स याति परमां गतिम्। प्रकृतिवियुक्तं मत्समानाकारमपुनरावृत्तिमात्मानं प्राप्नोतीत्यर्थः” इतिचोक्तेः। अनन्तरञ्च “एवमैश्वर्यार्थिनः कैवल्यार्थिनश्च स्वप्राप्त्यनुगुणं भगवदुपासनप्रकारः उक्तः। अथ ज्ञानिनो भगवदुपासनप्रकारं प्राप्तिप्रकारञ्चाह” इत्युक्त्वा “अनन्यचेताः” इत्येतद्व्या- ख्यातम्। “अतः परमध्यायशेषेण ज्ञानिनः कैवल्यार्थिनश्चापुनरावृत्तिम्, ऐश्वर्यार्थिनः पुनरावृत्तिञ्चाह” इत्युक्त्वा “मामुपेत्य” इत्यादिकं “प्रभवत्यहरागमे” इत्येतदन्तं व्याख्याय “कैवल्यं प्राप्तानामपि पुनरावृत्तिर्नविद्यते इत्याह” इत्युक्त्वा “परस्तस्मात्तु” इत्यादिकमपि “तद्धाम परमं मम” इत्येतदन्तं व्याख्यातम्। अनन्तरञ्च “ज्ञानिनः प्राप्यं तु तस्मादत्यन्तविभक्तमित्याह” इत्युक्त्वा “पुरुषः स परः पार्थ” इति श्लोको व्याख्यातः। अनन्तरञ्च “आत्मयाथात्म्यविदः परमपुरुषनिष्टस्य च साधारणीमर्चिरादिकां गतिमाह” इत्युक्तम्। अथ तत्रभाष्यग्रन्थ एवेह लिख्यते। तथा हि “द्वयोरप्यर्चिरादिका गतिः श्रुता श्रुतौ। सा चापुनरावृत्ति लक्षणा। यथा पञ्चाग्निविद्यायां “तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहः” इत्यादौ। अर्चिरादिना गतस्य परब्रह्मप्राप्तिरपुनरावृत्तिश्चाम्नाता “स एनान् ब्रह्म गमयति एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते” इति। न च प्रजापतिवाक्यादौ श्रुतपरविद्याङ्गभूतात्मप्राप्तिविशयेयं “तद्य इत्थं विदुः” इति गतिश्रुतिः ; “ये चेमेऽरण्ये श्रद्धा तप इत्युपासते” इति परविद्यायाः पृथक्छ्रुति वैयर्थ्यात्। पञ्चाग्निविद्यायाञ्च “इति तु पञ्चमायामाहुतावापः पुरुष वचसो भवन्ति” इति, “रमणीय चरणाः कपूय चरणाः” इति पुण्यपापहेतुको मनुष्यादिभावोऽपामेव भूतान्तरसंसृष्टानाम्, आत्मनस्तु तत्परिष्वङ्गमात्रमिति चिदचितोर्विवेकमभिधाय “तद्य इत्थं विदुः, तेऽर्चिषमभिसम्भवन्ति, इमं मानवमावर्तं नावर्तन्ते” इति विविक्ते चिदचिद्वस्तुनी त्याज्यतया प्राप्यतया च य इत्थं विदुस्तेऽ- र्चिरादिना गच्छन्ति न च पुनरावर्तन्ते इत्युक्तमिति गम्यते। आत्मयाथात्म्यविदः परमपुरुषनिष्टस्य च “स एनान् ब्रह्म गमयति” इति ब्रह्मप्राप्तिवचनादचिद्वियुक्तमात्मवस्तु ब्रह्मात्मकतया ब्रह्मशेषतैक- रसमित्यनुसन्धेयम्। तत्क्रतुन्यायाच्च। परशेषतैकरसत्वञ्च ‘य आत्मनि तिषटन् यस्यात्मा शरीरम्’ इत्यादिश्रुतिसिद्धम्” इति। अतोऽक्षरनिष्टस्याप्यर्चिरादिगतिः सिद्धा। यत्तु “यः सर्वेषु भूतेषु नश्यत्सु विनश्यति” इत्यस्याक्षरविषयस्य व्याख्याने “सर्वेषु वियदादिभूतेषु सकारणेषु सकार्येषु विनश्यत्सु तत्र तत्र स्थितोऽपि न विनश्यति” इत्युक्तम् ; तदप्यचित्संसृष्टावस्थाविषयम्। अन्यथा पूर्वोक्तगति विरोधात्। द्वादशाध्याये च “ये त्वक्षरम्” इत्यत्र “तेऽपि मां प्राप्नुवन्त्येव। मत्समाना- कारमसंसारिणमात्मानं प्राप्नुवन्त्येवेत्यर्थः” इत्युक्तम्। अतः साम्प्रदायिक एवायं कैवल्याख्यो मोक्ष इति केचित्॥